Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन, रक्षामन्त्रिणा राजनाथसिंहेन सह अनेकैः नेतृभिः सोमवासरे देशवासिभ्यः ‘नागपञ्चमी’-पर्वणः हार्दिक्य: शुभकामनाः प्रदत्ताः।
शाहः ‘एक्स’-मध्ये लिखितवान्— “सर्वेभ्यः ‘नागपञ्चमी’-पर्वणः हार्दिक्य: शुभकामनाः। देवाधिदेवस्य महादेवस्य कृपया एतत् पर्व सर्वेषां जीवने सुखं शान्तिं समृद्धिं सौभाग्यं च आनयतु।”
राजनाथसिंहः उक्तवान् यत् भारतस्य सांस्कृतिकपरम्परायां प्रकृतिं प्रति श्रद्धा, समस्तजीवजगत् प्रति करुणा, सह-अस्तित्वस्य भावना च सदैव अन्तर्निहिता वर्तते। नागपञ्चमी एतस्याः शाश्वतजीवन-दृष्टेः पावनं पर्व अस्ति, यत् सर्वेभ्यः प्रकृतेः संरक्षणस्य, पर्यावरणीय-सन्तुलनस्य, प्रत्येकस्य जीवस्य सम्मानस्य च सन्देशं ददाति।
भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षः नितिननवीनः उक्तवान् यत् ईश्वरं प्रति प्रार्थना अस्ति यत् एतत् पावनं पर्व सर्वेषां जीवने नवीनाम् ऊर्जां, सकारात्मकतां, मङ्गलं च आनयतु।
केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंह-शेखावतः संस्कृतभाषायां श्लोकमेकम् अलिखत्—
“ॐ भुजंगेशाय विद्महे, सर्पराजाय धीमहि, तन्नो नागः प्रचोदयात्।”
केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः उक्तवान् यत् महादेवं नागदेवतां च प्रति प्रार्थना अस्ति यत् एतत् पावनं पर्व सर्वेषां जीवने सुखं शान्तिं समृद्धिम् आरोग्यं च आनयतु।
Hindusthan Samachar / Divya Ranjan