Enter your Email Address to subscribe to our newsletters

प्रायः १,९४३ कोटिरूप्यकाणां सन्धौ नवदिल्ली इत्यत्र हस्ताक्षरितम्
नवदिल्ली, १७ अगस्तमासः (हि.स.)। भारतीयनौसेनायै द्वे एमक्यू-९बी-सशस्त्रे ड्रोन्-विमाने अमेरिकादेशात् त्रिंशन्मासानां कृते लीज इत्यस्मिन् स्वीकरिष्येते। अमेरिकादेशात् एकत्रिंशत् एमक्यू-९बी-सशस्त्र-ड्रोन्-विमानानां क्रयणस्य सन्धि: अन्तिमरूपं न प्राप्तवती इति कारणेन एषः विकल्पः स्वीकृतः। प्रायः १,९४३ कोटिरूप्यकाणां अस्मिन् सन्धय: सोमवासरे नवदिल्ली इत्यत्र हस्ताक्षराणि कृतानि। भारताय एतेषां ड्रोन-विमानानां प्राप्तेः अनन्तरं समुद्रमर्गेषु मानवरहित-निगरानीं टोही-निरीक्षणञ्च सञ्चालयितुं शक्यते, येन वर्तमानभविष्यत्कालिकानां च संकटानां सम्मुखीकरणाय भारतस्य क्षमता वर्धिष्यते। विशेषतः चीन-सीमायां भारतस्य निरीक्षणं अधिका सुगमा भविष्यति।
रक्षाविभागस्य अपरसचिवस्य तथा महानिदेशकस्य (अधिग्रहणम्) ए. अनबरसुमहोदयस्य उपस्थितौ अद्य द्वयोः एमक्यू-९बी सी-गार्डियन-उच्चोन्नत-दीर्घकालिक-रिमोटली-पायलटेड-एयरक्राफ्ट-सिस्टम इत्यनयोः लीज इत्यनेन स्वीकरणाय जनरल एटॉमिक्स एयरोनॉटिकल सिस्टम्स इन्क. इत्यनेन सह सन्धिषु हस्ताक्षराणि कृतानि। एमक्यू-९बी-सशस्त्र-ड्रोन-विमानानि उन्नतप्रणालीभिः, अत्याधुनिकसंवेदकैः परिष्कृतभारैश्च सुसज्जितानि सन्ति, ये भारतीयनौसेनायाः समुद्रीयक्षमतां वर्धयिष्यन्ति। एता: प्रणाल्य: समुद्रीय-क्षेत्रस्य विस्तीर्णभागे निरन्तरं गुप्तचर-सूचना, निरीक्षणं टोहीञ्च प्रदास्यन्ति, येन हिन्दमहासागरक्षेत्रस्य निरीक्षणाय तत्र सम्भावितेभ्यः संकटेभ्यः प्रत्युत्तरदाने च भारतस्य क्षमता सुदृढा भविष्यति।
वस्तुतः भारतं अमेरिकादेशात् क्रयणीयानां ३१ एमक्यू-९बी-ड्रोन्-विमानानां विषये स्पष्टतया उक्तवान् यत् अधुना तेषां मूल्यं निर्धारितं नास्ति तथा च अमेरिकी-सर्वकारस्य नीतिगत-अनुमोदनं प्राप्य मूल्यविषये वार्ता भविष्यति। मूल्यं क्रयणस्य अन्याः नियमाः शर्ताश्च अद्यापि निर्धारिताः न सन्ति तथा च ते वार्ताधीनाः सन्ति। रक्षामन्त्रालयः जनरल एटॉमिक्स इत्यनेन सह समन्वयं कृत्वा अन्येषां देशानां तुलनायां सर्वोत्तममूल्येन क्रयणं करिष्यति। अस्य विपरीतं अमेरिकादेशेन ३.९९ अर्बुद-अमेरिकी-डॉलर-मितायाः (३२ सहस्रकोटिरूप्यकाणाम्) अनुमानित-व्ययेन भारताय ३१ एमक्यू-९बी-सशस्त्र-ड्रोन-विमानानां विक्रयणस्य अनुमोदनं कृतम् अस्ति। अस्य महत्त्वपूर्णस्य ड्रोन्-सन्धे: घोषणा २०२३ तमस्य वर्षस्य जूनमासे प्रधानमन्त्रिणः नरेन्द्रमोदिनः राजकीययात्रायाः अवधौ कृता आसीत्।
अमेरिकी-रक्षासुरक्षासहयोग-अभिकरणेन उक्तं यत् भारतं ३१ एमक्यू-९बी स्काई-गार्डियन-विमानानां क्रयणस्य अनुरोधं कृतवान् आसीत्। दीर्घदूरगामी यूएवी कस्यापि सम्भावितस्य संकटस्य निरीक्षणं कुर्वन् ३६ होराः यावत् आकाशे स्थातुं शक्नोति। प्रदत्ते अनुमोदने १७० एजीएम-११४ आर हेलफायर-प्रक्षेपास्त्राणि, १६ एम३६ई९ हेलफायर-कैप्टिव-वायु-प्रशिक्षण-प्रक्षेपास्त्राणि, ३१० लेजर-लघुव्यास-विस्फोटा: तथा जीवित-फ्यूज-सहिताः अष्टौ लेजर-निर्देशित-परीक्षण-वाहनानि अपि सम्मिलितानि सन्ति। भारताय ३१ उच्चोन्नत-दीर्घकालिक-यूएवी-विमानानि प्राप्त-व्यानि सन्ति। तेषु नौसेनायै १५ सी-गार्डियन-ड्रोन-विमानानि, सेना-भारतीय-वायुसेनयोः कृते च अष्टौ-अष्टौ लैण्ड-वर्जन-स्काई-गार्डियन-विमानानि प्राप्तव्यानि सन्ति। सम्प्रति भारतं नौसेनायै द्वे एमक्यू-९बी-सशस्त्र-ड्रोन-विमाने अमेरिका-देशात् त्रिंशन्मासानां कृते लीज इत्यनेन स्वीकरणस्य सन्धिं कृतवान्।
Hindusthan Samachar / Divya Ranjan