नेपालस्य राष्ट्रपतिः भारतीय थल सेनाध्यक्षाय मानद महारथी उपाधिं प्रदत्तवान्
काठमांडूः, 17 अगस्तमासः (हि.स.)। नेपालस्य राष्ट्रपतिः रामचन्द्र पौडेलः भारतीयस्थलसेनाध्यक्षाय जनरल् धीरज सेठ इत्यस्मै नेपालीसेनायाः मानद महारथी अर्थात् मानदसेनाध्यक्षस्य उपाधिं प्रदत्तवान्। राष्ट्रपति भवनस्य शीतलनिवासे सोमवासरे आयोजिते विशेषसमार
नेपाल के राष्ट्रपति के हाथों मानद उपाधि लेने के बाद भारतीय थलसेनाध्यक्ष जनरल धीरज सेठ


काठमांडूः, 17 अगस्तमासः (हि.स.)।

नेपालस्य राष्ट्रपतिः रामचन्द्र पौडेलः भारतीयस्थलसेनाध्यक्षाय जनरल् धीरज सेठ इत्यस्मै नेपालीसेनायाः मानद महारथी अर्थात् मानदसेनाध्यक्षस्य उपाधिं प्रदत्तवान्। राष्ट्रपति भवनस्य शीतलनिवासे सोमवासरे आयोजिते विशेषसमारोहे राष्ट्रपतिना पौडेलमहोदयेन जनरल् सेठमहोदयाय नेपालीसेनायाः मानद महारथी इत्यस्य उपाधेः दर्ज्यानीचिह्नं प्रदत्तम्।

अस्मिन् अवसरे उपराष्ट्रपतिः रामसहाय यादवः, नेपालीसेनायाः प्रधानसेनापतिः जनरल् अशोकसिग्देलः, नेपालस्थितः भारतस्य राजदूतः नवीनश्रीवास्तवः च उपस्थिताः आसन्।

१९५० तमवर्षात् प्रवर्तमानायां भारतनेपालयोः सेनाप्रमुखेभ्यः परस्परस्य सेनायाः मानद महारथी इत्युपाधिं प्रदातुं परम्परायाम् अस्याः यात्रायाः माध्यमेनापि निरन्तरता प्राप्ता अस्ति।

नेपालीसेनायाः प्रधानसेनापतेः अशोकराजसिग्देलस्य निमन्त्रणेन जनरल् धीरज सेठः त्रिदिवसीयायाः आधिकारिकयात्रायाः अन्तर्गतं काठमाण्डूनगरे स्थितः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani