रेलसुरक्षाबलेन ‘ऑपरेशन नन्हे फरिश्ते’ इति अभियानेन २०२६ तमे वर्षे ३४ बालकाः सुरक्षिताः
जम्मू, १७ अगस्तमासः (हि.स.)। जम्मूमण्डले रेलसुरक्षाबलेन बालकानां सुरक्षा-संरक्षणाय सञ्चाल्यमाने विशेषाभियाने ‘ऑपरेशन नन्हे फरिश्ते’ इत्यस्य अन्तर्गतं वर्षे २०२६ तमे प्रशंसनीयं कार्यं कृतम्। अभियानस्य समये रेलस्थानकेभ्यः रेलयानेभ्यश्च परिवारेभ्यः पृ
रेलसुरक्षाबलेन ‘ऑपरेशन नन्हे फरिश्ते’ इति अभियानेन २०२६ तमे वर्षे ३४ बालकाः सुरक्षिताः


जम्मू, १७ अगस्तमासः (हि.स.)। जम्मूमण्डले रेलसुरक्षाबलेन बालकानां सुरक्षा-संरक्षणाय सञ्चाल्यमाने विशेषाभियाने ‘ऑपरेशन नन्हे फरिश्ते’ इत्यस्य अन्तर्गतं वर्षे २०२६ तमे प्रशंसनीयं कार्यं कृतम्। अभियानस्य समये रेलस्थानकेभ्यः रेलयानेभ्यश्च परिवारेभ्यः पृथग्भूतान्, लुप्तान् अथवा एकाकिनः प्राप्तान् ३४ अल्पवयस्कबालकान् सुरक्षिततया उद्धृतम्।

उद्धारितेषु बालकेषु २४ अल्पवयस्कबालकाः तथा १० अल्पवयस्कबालिकाः सम्मिलिताः सन्ति। आरपीएफ्-सैनिकैः जम्मूमण्डलस्य विभिन्नेषु रेलस्थानकेषु रेलयानेषु च अभियानस्य अन्तर्गतं निरन्तरं निरीक्षणं च कुर्वद्भिः एते बालकाः अभिज्ञाताः तथा सुरक्षितसंरक्षणे गृहीताः।

बालकानाम् उद्धारानन्तरं तेभ्यः तत्कालं भोजनं, परिचर्या, सुरक्षा च प्रदत्ता। ततः नियमानुसारं सर्वे बालकाः बालकल्याणसमितेः समक्षं प्रस्तुताः। विधिप्रक्रियायाः पूर्णतायां परिचयस्य सत्यापनानन्तरं च बालकाः तेषां मातापित्रोः अथवा सम्बन्धिजनानां सुरक्षिततया समर्पिताः।

मण्डलरेलप्रबन्धकः विवेककुमारः अस्याः उपलब्धेः विषये प्रसन्नतां व्यक्तं कुर्वन् आरपीएफ-सैनिकानां प्रयासानां प्रशंसां कृतवान्। सः अवदत् यत् रेलविभागस्य प्राथमिकता यात्रिणां सुरक्षा अस्ति, अस्मिन् बालकानां महिलानां च सुरक्षा विशेषरूपेण महत्त्वपूर्णा अस्ति। भविष्ये अपि एतादृशानि अभियानानि अधिकसुदृढानि करिष्यन्ते, येन रेलपरिसरे कश्चिदपि बालकः असुरक्षितः न भवेत्।

‘ऑपरेशन नन्हे फरिश्ते’ भारतीयरेलविभागस्य आरपीएफ-सङ्घटनस्य च मानवीयम् अभियानम् अस्ति। अस्य अन्तर्गतं रेलपरिसरेषु परिवारेभ्यः पृथग्भूतान्, लुप्तान् अथवा गृहात् पलायितान् बालकान् अभिज्ञाय तेभ्यः सुरक्षितसंरक्षणं प्रदीयते तथा आवश्यकविधिप्रक्रियायाः अनन्तरं तान् तेषां परिजनैः सह मेलयितुं प्रयत्नः क्रियते।

इदम् अभियानं बालकान् तस्करेभ्यः, अपराधिभ्यः तथा दुष्सङ्गतेः सम्भावितसंकटात् रक्षितुं महत्त्वपूर्णां भूमिकां निर्वहति। आरपीएफ-कर्मचारिणः रेलस्थानकेषु निरन्तरं निरीक्षणं कुर्वन्तः आवश्यकताग्रस्तानाम् एकाकिनां च बालकानां साहाय्यार्थं सदैव तत्पराः भवन्ति।

रेलसुरक्षाबलेन यात्रिभ्यः आह्वानं कृतं यत् यात्राकाले स्वबालकानां विशेषरूपेण ध्यानं कुर्वन्तु। यदि कश्चित् बालकः रेलपरिसरे एकाकी अथवा मार्गभ्रष्टः दृश्यते, तर्हि तत्कालं आरपीएफ-सहायतासङ्ख्यायां १३९ अथवा समीपस्थे आरपीएफ-केन्द्रे सूचनां ददतु।

Hindusthan Samachar / Divya Ranjan