Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सर्वदा इव अद्य प्रातःकाले ‘एक्स’-मध्ये सुभाषितमेकं लिखित्वा सामूहिकसङ्कल्पस्य एकतायाः च शक्तेः बोधम् अकारयत्। सः उक्तवान्— “सामूहिकसङ्कल्पस्य एकतायाः च शक्त्या एव देशः अग्रे वर्धते। एषैव भावना भारतस्य प्रगतेः समृद्धेश्च सुदृढा आधारशिला अस्ति।”
इदं सुभाषितम् अस्ति—“समानी व आकूतिः समाना हृदयानि वः।समानमस्तु वो मनो यथा वः सुसहासति॥”
सुभाषितरूपेण अयं मन्त्र: ऋग्वेदस्य दशमे मण्डले, १९१-तमस्य सूक्तस्य चतुर्थ: मन्त्र: च विद्यते।
प्रधानमन्त्रिणः ‘एक्स’-प्रकोष्ठे अस्य सुभाषितस्य अर्थः अपि लिखितः अस्ति— “अस्माकं सर्वेषां सङ्कल्पाः समानाः भवेयुः, अस्माकं मनांसि ऐक्यभावनया सम्बद्धानि भवेयुः, येन वयं सर्वे परस्परं सहयोगेन समानव्यवहारेण च समाजस्य उन्नत्यै निरन्तरं प्रयत्नं कुर्मः।”
Hindusthan Samachar / Divya Ranjan