प्रधानमंत्री सूर्य घर योजनायां वर्धितम् अनुदानम्, अधुना 3 किलोवाट अथ च ततः अधिकस्य सोलर यूनिटमध्ये मेलिष्यन्ते 98 सहस्रं रूप्यकाणि
सुपौलम्, 17 अगस्तमासः (हि.स.)। जनपदे अधिकाधिकजनानां पर्यन्तं प्रधानमन्त्री-सूर्यघर-मुफ्तविद्युत्-योजनां प्रापयितुं प्रशासनस्य प्रयत्नाः तीव्रतया प्रवर्तन्ते। सोमवासरे उपविकासायुक्तः इन्द्रवीरकुमारः योजनायाः प्रगतेः समीक्षां कृतवान्। समीक्षायाः सम
Br


सुपौलम्, 17 अगस्तमासः (हि.स.)।

जनपदे अधिकाधिकजनानां पर्यन्तं प्रधानमन्त्री-सूर्यघर-मुफ्तविद्युत्-योजनां प्रापयितुं प्रशासनस्य प्रयत्नाः तीव्रतया प्रवर्तन्ते। सोमवासरे उपविकासायुक्तः इन्द्रवीरकुमारः योजनायाः प्रगतेः समीक्षां कृतवान्। समीक्षायाः समये ज्ञातं यत् जनपदे अधुना पर्यन्तं १० सहस्राधिकैः जनैः प्रधानमन्त्री-सूर्यघर-मुफ्तविद्युत्-योजनायाः लाभं प्राप्तुं आवेदनं कृतम् अस्ति। सामान्यजनानां मध्ये योजनां प्रति वर्धमानां रुचिं दृष्ट्वा सर्वकारेण सौरऊर्जायन्त्रस्य स्थापनायै प्रदीयमानस्य अनुदानस्य राशौ अपि वृद्धिः कृता अस्ति।

समीक्षायाः समये विद्युत्विभागस्य कार्यपालकाभियन्ता आलोककुमारः अवदत् यत् सर्वकारेण योजनायाः अन्तर्गतं प्रदीयमानस्य अधिकतमस्य अनुदानस्य राशौ वृद्धिः कृता अस्ति। पूर्वं अधिकतमं ७८ सहस्ररूप्यकाणि यावत् अनुदानं प्रदीयते स्म, यत् अधुना ९८ सहस्ररूप्यकेषु परिवर्तितम् अस्ति। अनेन जनानां स्वगृहेषु सौरऊर्जायन्त्रस्य स्थापनायै पूर्वापेक्षया अधिका आर्थिकसहायता प्राप्स्यते।

कार्यपालकाभियन्ता अवदत् यत् जनाः स्वकीयविद्युदावश्यकतानुसारं लघुं वा बृहद् वा सौरऊर्जायन्त्रम् स्थापयितुं शक्नुवन्ति। योजनायाः अन्तर्गतं एककिलोवाट्-क्षमतेः सौरऊर्जायन्त्राय प्रदीयमाना सहाय्यराशिः ३० सहस्ररूप्यकेभ्यः वर्धयित्वा ४० सहस्ररूप्यकाणि कृता अस्ति। अपरतः द्विकिलोवाट्-क्षमतेः यन्त्राय प्रदीयमाना सहाय्यराशिः ६० सहस्ररूप्यकेभ्यः वर्धयित्वा ८० सहस्ररूप्यकाणि कृता अस्ति। तथैव त्रिकिलोवाट्-क्षमतेः ततोऽधिकक्षमतेः वा सौरऊर्जायन्त्राय प्रदीयमाना अधिकतमा सहाय्यराशिः ७८ सहस्ररूप्यकेभ्यः वर्धयित्वा ९८ सहस्ररूप्यकेषु कृता अस्ति।

अनुदानस्य अस्याः वृद्ध्या घरेलूविद्युत्पभोक्तृभ्यः सौरऊर्जां स्वीकर्तुं पर्याप्ता सुविधा भविष्यतीति अपेक्षा अस्ति। योजनायाः अन्तर्गतं सर्वकारेण प्रदीयमानायाः वित्तीयसहायतायाः अतिरिक्तं सौरऊर्जायन्त्रस्य स्थापनायै आवश्यकां शेषराशिं बैंकेभ्यः सरलमासिककिस्तरूपेण ऋणं स्वीकृत्य अपि व्यवस्थापयितुं शक्यते। अनेन आर्थिकदृष्ट्या असमर्थानाम् अपि कुटुम्बानां कृते स्वगृहस्य छदौ सौरऊर्जाव्यवस्थां स्थापयितुं सुलभं भविष्यति।

उपविकासायुक्तः इन्द्रवीरकुमारः विद्युत्विभागस्य कार्यपालकाभियन्तारं निर्देशितवान् यत् जनपदे योजनायाः व्यापकस्तरे प्रचारप्रसारः क्रियताम्। सः अवदत् यत् सर्वकारेण अनुदाने कृता वृद्धेः सूचना अधिकाधिकजनानां पर्यन्तं प्रापणीया, येन एषा सुविधा केवलं कतिपयजनानां पर्यन्तं सीमिता न भवेत् तथा अधिकाधिकाः कुटुम्बाः प्रधानमन्त्री-सूर्यघर-मुफ्तविद्युत्-योजनायाः लाभं प्राप्तुं शक्नुयुः।

समीक्षायाः समये सूचितं यत् जनपदस्य जनानां मध्ये योजनां प्रति निरन्तरं रुचिः वर्धमाना अस्ति। अधुना पर्यन्तं १० सहस्राधिकानि आवेदनानि प्राप्तानि सन्ति। प्रशासनस्य पक्षतः जनान् योजनायाः पात्रतायाः, अनुदानस्य आवेदनप्रक्रियायाश्च विषये सूचनां प्रदातुं जनजागरूकतावर्धनस्य विषये विशेषं बलं दीयते।

Hindusthan Samachar / Dheeraj Maithani