प्रधानमन्त्री विपक्षिनेतॄन् न, अपि तु पृथक्ताववादिनः पूर्वोत्तरभारतं च देशात् पृथक्कर्तुम् इच्छुकान् ‘मानसिक-नक्सल’ इति उक्तवान् - किरेण रिजिजू
नवदिल्ली, १६ अगस्तमासः (हि.स.)। केन्द्रीयसंसदीयकार्य-मन्त्री किरेण रिजिजू रविवासरे प्रधानमन्त्रिण: नरेन्द्रमोदिनः ‘मानसिक-नक्सल’ इति पदप्रयोगस्य विषये स्पष्टीकरणं प्रदत्तवान्। सः उक्तवान् यत् प्रधानमन्त्री विपक्षिनेतॄन् ‘मानसिक-नक्सल’ इति न उक्तवान
Rijiju urges opposition to allow smooth functioning of House


नवदिल्ली, १६ अगस्तमासः (हि.स.)। केन्द्रीयसंसदीयकार्य-मन्त्री किरेण रिजिजू रविवासरे प्रधानमन्त्रिण: नरेन्द्रमोदिनः ‘मानसिक-नक्सल’ इति पदप्रयोगस्य विषये स्पष्टीकरणं प्रदत्तवान्। सः उक्तवान् यत् प्रधानमन्त्री विपक्षिनेतॄन् ‘मानसिक-नक्सल’ इति न उक्तवान्, अपि तु एतत् पदं माओवादिभ्यः, पृथक्तावादिभ्यः, भारतं विभक्तुं विचारधारणां धारयद्भ्यश्च जनेभ्यः प्रयुक्तम्।

रिजिजू सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र प्रकाशितेन सन्देशेन प्रधानमन्त्री-वक्तव्यस्य व्याख्यां कृतवान्। सः उक्तवान् यत् माओवादस्य समर्थनं कुर्वन्तः, भारतीयसंविधानम् अस्वीकारयन्तः, पृथक्तावादिभिः सह स्थितवन्तः, अनुच्छेदं ३७० समर्थयन्तः जनाः, तथा पूर्वोत्तरभारतं देशस्य शेषभागेभ्यः पृथक्कर्तुं प्रयतमानाः जनाः ‘मानसिक-नक्सल’ इति कथिताः।

स्वकीयेन सन्देशेन सह रिजिजूः शर्जील-इमामस्य पूर्वोक्तेः अपि उल्लेखं कृतवान्, यस्मिन् पूर्वोत्तरभारतं देशात् पृथक्कर्तुं कथनं कृतम् आसीत्।

वस्तुतः प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे स्वातन्त्र्यदिवसस्य अवसरे रक्तदुर्गस्य प्राचीरात् राष्ट्रं सम्बोधयन् ‘मानसिक-नक्सल’ इति पदस्य प्रयोगं कृतवान्। तेन एतादृशानां जनानां समाजात् पृथक्करणस्य आवश्यकता प्रतिपादिता आसीत्। ततः विपक्षिदलैः दावा कृतः यत् प्रधानमन्त्री-सन्देशः सर्वकारस्य नीतिषु विरोधं कुर्वतां विपक्षिदलानां नेतॄन् च प्रति निर्देशितः आसीत्।

रिजिजू एतान् आरोपान् निराकृत्य उक्तवान् यत् प्रधानमन्त्री विपक्षिनेतॄन् ‘मानसिक-नक्सल’ इति न उक्तवान्। तेन स्पष्टं कृतं यत् एतत् पदं तेषां जनानां कृते प्रयुक्तम् अस्ति, ये माओवादीविचारधारायाः समर्थनं कुर्वन्ति, संविधानम् अस्वीकरोति, अथवा देशस्य एकतायाः अखण्डतायाश्च विरुद्धं पृथक्तावादीं विचारधारां धारयन्ति।

Hindusthan Samachar / Divya Ranjan