Enter your Email Address to subscribe to our newsletters


उज्जयिनी (मध्यप्रदेशः), १७ अगस्तमासः (हि.स.)। श्रावणमासस्य तृतीय-सोमवासरस्य नागपञ्चम्याः च एकत्रागमनेन बाबा महाकालस्य नगरे उज्जयिन्यां सोमवासरे श्रद्धालूनां महान् सम्मर्द: समुपस्थित:। वर्षे केवलम् एकवारं २४ होराभ्यः उद्घाट्यमानस्य नागचन्द्रेश्वर-मन्दिरस्य कपाटानि रविवासरे मध्यरात्रौ १२ वादने उद्घाटितानि। तेन सह भगवान् महाकालस्य दर्शनार्थम् अपि मध्यरात्रेः आरभ्य श्रद्धालूनां पङ्क्तयः आरब्धाः।
नागपञ्चम्याः श्रावणसोमवासरस्य च अस्य विशेषस्य संयोगस्य कारणेन देशस्य विभिन्नेभ्यः भागेभ्यः श्रद्धालवः उज्जयिनीं प्राप्तवन्तः। जनपदाधिकारिणा रोशनसिंहेन उक्तं यत् अधुना पर्यन्तं महाकालमन्दिरे प्रायः १.५० लक्षं तथा नागचन्द्रेश्वरमन्दिरे प्रायः ४ लक्षं श्रद्धालवः दर्शनं कृतवन्तः। मन्दिरपरिसरे तदनन्तरं समीपवर्तिक्षेत्रेषु च निरन्तरं महान् सम्मर्द: वर्तते। दर्शनव्यवस्थायाः नियन्त्रणार्थं प्रवेशस्य निर्गमनस्य च मार्गाः पृथक् निर्धारिताः सन्ति। श्रद्धालुभिः निर्धारितमार्गेण प्रायः सार्धैक-किलोमीटर यावत् पद्भ्यां गत्वा मन्दिरं प्राप्तव्यम् अस्ति।
महाकालमन्दिरस्य तृतीयतले स्थितस्य भगवय: नागचन्द्रेश्वरमन्दिरस्य कपाटानि परम्परानुसारं रविवासरे मध्यरात्रौ १२ वादने उद्घाटितानि। प्रथमपूजनस्य अनन्तरं श्रद्धालूनां कृते दर्शनस्य क्रमः प्रारब्धः। मन्दिरस्य कपाटानि अग्रिमा: २४ होरा: यावत् उद्घाटितानि स्थास्यन्ति। नागचन्द्रेश्वरमन्दिरस्य प्रमुखं वैशिष्ट्यम् एतत् अस्ति यत् अस्य कपाटानि वर्षे केवलम् एकवारं नागपञ्चम्यां उद्घाट्यन्ते। शेषे वर्षे मन्दिरस्य कपाटानि पिहितानि भवन्ति। अतः नागपञ्चमी-पर्वणः अवसरे अत्र दर्शनार्थं देशस्य विभिन्नेभ्यः भागेभ्यः बहुसंख्याकाः श्रद्धालवः उज्जयिनीं प्राप्नुवन्ति। अस्मिन् वर्षे नागपञ्चम्याः श्रावणसोमवासरस्य च संयोगेन श्रद्धालूनां सङ्ख्या बहुगुणिता अभवत्।
मन्दिरे भगवत: शिवस्य मातुः पार्वत्याश्च नागराजस्य फणानाम् अधः विराज-मानायाः दुर्लभप्रतिमायाः दर्शनं भवति। परम्परानुसारं मान्यतानुसारं च नागचन्द्रेश्वरस्य दर्शनात् भगवत: शिवस्य नागदेवस्य च कृपा प्राप्यते तथा सर्पभयात् मुक्तिः भवति।
श्रावणस्य तृतीयसोमवासरे महाकालस्य भस्मारार्तिकी
श्रावणस्य तृतीयसोमवासरे श्रीमहा-कालेश्वरमन्दिरस्य कपाटा: प्रातः २:३० वादने उद्घाटिता:। कपाटोद्घाट-नानन्तरं सभामण्डपे वीर-भद्रजीस्य कर्णे स्वस्तिवाचनं कृत्वा भगवतः दर्शन-पूजनस्य अनुमतिः प्रार्थिता। ततः रजतपटः उद्घाटितः तथा कर्पूरारती सम्पन्ना। गर्भगृहे भगवान् महाकालस्य जलाभिषेकः कृतः। दुग्ध-दधि-घृत-शर्करा-मधु-फलरसैः निर्मितेन पञ्चामृतेन अभिषेकः सम्पन्नः। ततः भाङ्गेन, चन्दनेन विविधाभरणैश्च बाबा महाकालस्य दिव्यं शृङ्गारं कृतम्।
भस्मार्पणात् पूर्वं मन्त्रैः उच्चारणं विधिपूर्वकं पूजनं च कृतम्। कर्पूरारत्यनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य तस्मिन् भस्म समर्पितम्। ततः भगवते शेषनागस्य रजतमुकुटं, रजतमुण्डमाला, रुद्राक्षमाला सुगन्धिपुष्पमालाश्च धृताः। फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि।
भस्मारार्तिक्या: समये चलदर्शन-व्यवस्थानुसारं विना अनुमतिपत्रं स्थितेभ्यः श्रद्धालुभ्यः अपि दर्शनस्य अवसरः प्राप्तः। यदा बाबा महाकालस्य भस्मशृङ्गारः सम्पन्नः, तदा मन्दिरपरिसरः ‘हर हर महादेव’ तथा ‘जय श्री महाकाल’ इति जयघोषैः गुञ्जितः। महानिर्वाणी-अखाडस्य पक्षतः भगवते महाकालाय भस्म समर्पितम्। भस्मारार्तिक्या: अनन्तरं बहुसंख्याकैः श्रद्धालुभिः नन्दीमण्डपे नन्दीमहाराजस्य दर्शनं कृतम्। श्रद्धालवः नन्दे: कर्णे स्वकीयां मनोकामनां निवेद्य बाबा महाकालात् सुखसमृद्ध्योः प्रार्थनां कृतवन्तः। मन्दिरपरिसरे प्रातःकालादेव भक्तेः उत्साहस्य च वातावरणं वर्तते।
सायं ४ वादने भविष्यति बाबा महाकालस्य तृतीया सवारी
श्रावणस्य तृतीयसोमवासरस्य सर्वाधिकं प्रमुखम् आकर्षणं बाबा महाकालस्य तृतीया सवारी भविष्यति। सवारी सायं ४ वादने महाकालेश्वरमन्दिरात् निर्गमिष्यति। अस्यां सवार्यां भगवान् महाकालस्य विभिन्नानि स्वरूपाणि नगरभ्रमणं करिष्यन्ति। सवार्यां चन्द्रमौलेश्वरस्वरूपं रजतपालक्यां, मनमहेशस्वरूपं गजे तथा शिवताण्डवस्वरूपं गरुडरथे विराजमानं भविष्यति। सवारीसमये बहुसंख्याकानां श्रद्धालूनां समागमस्य सम्भावना अस्ति। श्रावणमासस्य सवारिषु बाबा महाकालस्य नगरभ्रमणस्य परम्परानुसारं भक्ताः मार्गस्य उभयतः स्थित्वा भगवतः दर्शनं कुर्वन्ति।
दर्शनाय सवारी कृते च पृथक् व्यवस्था
श्रद्धालूनां वर्धमानां सङ्ख्यां दृष्ट्वा प्रशासनं मन्दिरप्रबन्धनं च दर्शनस्य सवार्याश्च कृते पृथक् व्यवस्थाः कृतवन्तौ। नागचन्द्रेश्वरस्य महाकालस्य च दर्शनार्थं पृथक् मार्गाः निर्धारिताः सन्ति, सवारीमार्गे च सम्मर्द-नियन्त्रणार्थं अवरोधकानि सुरक्षाव्यवस्था च कृता अस्ति। प्रशासनं श्रद्धालून् निर्धारितमार्गस्य व्यवस्थायाः च पालनं कर्तुं प्रार्थितवान्।
Hindusthan Samachar / Divya Ranjan