अमितशाहः उक्तवान्— मतपेटिकालोभेन काङ्ग्रेसेन ‘वन्देमातरम्’ विस्मृतम्
पूर्वप्रधानमन्त्रिणः अटलबिहारीवाजपेयी-महोदयस्य २१-पाद-उन्नतायाः अष्टधातु-निर्मितायाः प्रतिमायाः अनावरणम् चित्तौडगढः, १६ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः काङ्ग्रेसपक्षे ‘वन्देमातरम्’ इत्यस्य अपमानस्य आरोपं कुर्वन् उ
केंद्रीय गृहमंत्री शाह मंच पर राजस्थान के सीएम शर्मा और अन्य नेताओं के साथ।


अमित शाह सभा को संबोधित करते हुए


पूर्वप्रधानमन्त्रिणः अटलबिहारीवाजपेयी-महोदयस्य २१-पाद-उन्नतायाः अष्टधातु-निर्मितायाः प्रतिमायाः अनावरणम्

चित्तौडगढः, १६ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः काङ्ग्रेसपक्षे ‘वन्देमातरम्’ इत्यस्य अपमानस्य आरोपं कुर्वन् उक्तवान् यत् मतपेटिकालोभेन काङ्ग्रेसेन ‘वन्देमातरम्’ इति गीतं विस्मृतम् आसीत्। सः उक्तवान् यत् ‘वन्देमातरम्’ इत्यस्य १५०तमवर्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना रक्तदुर्गस्य प्राचीरात् अस्य गीतस्य पुनः गौरवं प्रतिष्ठापयितुं कार्यं कृतम्। सः उक्तवान् यत् काङ्ग्रेसस्य निर्लज्जतां पश्यत— काङ्ग्रेसपक्षस्य मुख्यालये ‘वन्देमातरम्’ इति गीतस्य गायनं प्रचलितम् आसीत्। गायने प्रचलति सति काङ्ग्रेसनेत्री सोनियागान्धी काङ्ग्रेसाध्यक्षं गीतस्य गायनं स्थगयितुं उक्तवती। वयं सर्वे दूरदर्शने एतत् दृष्टवन्तः। असीतिवर्षाणाम् अनन्तरं बङ्किमचन्द्रस्य एतत् गीतं पुनः सम्मानं प्राप्नोति, तदपि सोनियागान्ध्यै न रोचते।

अमितशाहः रविवासरे राजस्थानप्रवासस्य अवधौ चित्तौडगढजनपदस्य निम्बाहेडानगरे पूर्वप्रधानमन्त्रिणः अटलबिहारीवाजपेयी-महोदयस्य २१-पाद-उन्नतायाः अष्टधातु-निर्मितायाः प्रतिमायाः अनावरणानन्तरम् आयोजितां जनसभां सम्बोधयन् एतद् उक्तवान्। सः उक्तवान् यत् देशस्य १४० कोटिजनाः सोनियागान्ध्याः एतत्कृत्यं पश्यन्ति। ‘वन्देमातरम्’ इत्यस्य अपमानं देशः कदापि न स्वीकरिष्यति। सः उक्तवान् यत् यदि काङ्ग्रेसे किंचित् लज्जा अवशिष्टा अस्ति, तर्हि सा हस्तौ बद्ध्वा बङ्किमचन्द्रस्य अमरात्मने देशस्य जनतायै च अस्मिन् कृत्ये कृते क्षमायाचनां कुर्यात्।

केन्द्रीयगृहमन्त्री राष्ट्रगौरवं महाराणाप्रतापं श्रद्धापूर्वकं नत्वा उक्तवान् यत् मेवाडस्य एषा वीरभूमिः देशभक्तानां कृते काशीतः न्यूनतरा नास्ति। सः उक्तवान् यत् अस्यां वीरभूमौ महाराणाप्रतापस्य, वीरपूञ्जा-भीलस्य, सेठभामाशाहस्य च राष्ट्रभक्त्या, धर्मभक्त्या, स्वराज्यस्य प्रति अनुरागेण च मुगलानां विजययात्रा अवरुद्धा आसीत्।

राजस्थाने जलसङ्कटस्य उल्लेखं कुर्वन् शाहः उक्तवान् यत् मुख्यमन्त्री भजनलालशर्मा त्रिभिः सम्झौताभिः अर्धराजस्थानस्य तृष्णां शमयितुं कार्यं कृतवान्। सः उक्तवान् यत् यत्र यत्र भाजपापक्षाय जनतायाः आशीर्वादः प्राप्यते, तत्र तत्र पक्षः जनसेवायां संलग्नो भवति। राजस्थाने पूर्वं केवलं ११ लक्षगृहेभ्यः नलद्वारा जलं प्राप्यते स्म। मातरः भगिन्यश्च शिरसि त्रयः त्रयः घटान् धारयित्वा दूरात् जलम् आनयन्ति स्म। प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणया प्रारब्धेन जलजीवन-अभियानेन केवलम् अष्टवर्षेषु राजस्थाने ६४ लक्षगृहाणि नलजलस्य सुविधया युक्तानि अभवन्।

गृहमन्त्री उक्तवान् यत् पूर्वप्रधानमन्त्री स्वर्गीयः अटलबिहारीवाजपेयी-महोदयस्य सम्पूर्णं जीवनं ‘राष्ट्रं प्रथमम्’ इत्यस्य भावनायै समर्पितम् आसीत्। सः बाल्यकालादेव राष्ट्रभक्तेः मार्गे अगच्छत्। चत्वारिंशद्वर्षाणि यावत् विपक्षे स्थित्वा सर्वासु प्रतिकूलपरिस्थितिष्वपि राष्ट्रभक्तेः सिद्धान्तः एव तस्य जीवनस्य आधारः आसीत्। प्रधानमन्त्रीरूपेण तेन देशस्य विकासाय बहवः महत्त्वपूर्णाः निर्णयाः कृताः। सम्पूर्णस्य विश्वस्य दबावस्य पुरतः न नत्वा तेन पोखरणे परमाणुपरीक्षणं कृतम्। ग्रामान् मार्गैः संयोजयितुं कार्यं कृतम् तथा स्वर्णचतुष्कोण-योजनया राष्ट्रीयमार्गाणां विस्तारः कृतः। सः उक्तवान् यत् अटलजी जनजातीय-विकास-मन्त्रालयस्य स्थापनायाः महत्त्वपूर्णं कार्यमपि कृतवान्। अस्यैव परिणामरूपेण अद्य जनजातीयपरिवारस्य पुत्री श्रीमती द्रौपदीमुर्मू देशस्य राष्ट्रपतिः अस्ति।

अस्मिन् अवसरे मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् पूर्वप्रधानमन्त्री स्वर्गीयः अटलबिहारी-वाजपेयी देशस्य महान् नेता आसीत्। तस्य कुशलनेतृत्वे द्वितीयं परमाणुपरीक्षणं १९९९ तमस्य वर्षस्य कार्गिलयुद्धे विजयश्च भारतस्य छविं सम्पूर्णे विश्वे सुदृढां कृतवन्तौ। एतां गौरवशालिनीं परम्परां अग्रे नयन् प्रधानमन्त्री नरेन्द्रमोदी ‘ऑपरेशन-सिन्दूर’, सर्जिकल-स्ट्राइक्, एयर-स्ट्राइक् इत्यादिनां माध्यमेन भारतं स्वाभिमानयुक्तं सशक्तं च राष्ट्ररूपेण विश्वपटलं प्रतिष्ठापितवान्। प्रधानमन्त्रिणा नरेन्द्र-मोदिना वाजपेयी-महोदयस्य जन्मदिवसः २५ दिसम्बरः ‘सुशासनदिवसः’ इति घोषितः। सः उक्तवान् यत् केन्द्रीयगृहमन्त्री अमितशाहस्य सार्वजनिकजीवनं राष्ट्र-सेवायाः समर्पणस्य च प्रेरणादायकम् उदाहरणम् अस्ति। जम्मू-कश्मीरात् अनुच्छेदस्य ३७० इत्यस्य निष्कासनं देशे नक्सलवादस्य समस्यायाः उन्मूलनं च कर्तुं तस्य भूमिका अत्यन्तं महत्त्वपूर्णा अभवत्। त्रयः नवीनाः आपराधिकविधयः प्रवर्त्य तेन देशस्य आपराधिकन्यायव्यवस्थायां व्यापकः सुधारः कृतः। देशे प्रथमवारं गठितं सहकारिता-मन्त्रालयं तस्य नेतृत्वे सहकारिताक्षेत्रे समृद्धेः प्रेरणादायिनीं गाथां लिखति।

अस्मिन् कार्यक्रमे केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः मुख्यमन्त्रिणः भजनलालशर्मणः उपस्थितौ चित्तौडगढसहितेषु १५ जनपदेषु ५६५९ कोटिरुप्यकाणां व्ययेन निर्मितानां ९४४ विकासकार्याणां लोकार्पणं शिलान्यासं च कृतवान्। सहैव १५०० ग्रामेभ्यः जलजीवन-अभियानस्य अन्तर्गतं नलजलस्य सुविधायाः उपहारः प्रदत्तः। अस्मात् पूर्वं शाहः सहकारिताविभागेन जनपदप्रशासनेन च आयोजितां प्रदर्शनीम् अवलोकितवान्। समारोहस्य उपमुख्यमन्त्री डॉ. प्रेमचन्द्र-बैरवा इत्यादयः अन्ये मन्त्रिणः, सांसदाः, विधायकाः, स्थानीयजन-प्रतिनिधयः बहुसंख्यकाः सामान्यजनाश्च उपस्थिताः आसन्।

निम्बाहेडानगरे जे.के.-सर्किल् इत्यत्र लघु-अटल-स्मारके स्थापिता वाजपेयी-महोदयस्य प्रतिमा प्रायः चतुःसहस्र-किलोग्राम-भारयुक्तेन अष्टधातुना निर्मिता अस्ति। सा अष्टपाद-उन्नते पीठे स्थापिता अस्ति। प्रतिमा जयपुरस्य शिल्पिभिः निर्मिता अस्ति। स्मारके अन्यौ द्वौ पीठौ अपि निर्मितौ स्तः, ययोः एकस्मिन् वाजपेयी-महोदयस्य प्रधानमन्त्रित्वकाले सम्पन्नस्य पोखरण-परमाणुपरीक्षणस्य दृश्यं प्रदर्शितम् अस्ति, अपरस्मिन् च तस्य विभिन्नासु मुद्रासु भाषणं कुर्वतः चित्रणं कृतम् अस्ति।

Hindusthan Samachar / Divya Ranjan