Enter your Email Address to subscribe to our newsletters

तिरुचिरापल्लिः, १७ अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् सोमवासरे तमिलनाडु-केन्द्रीयविश्वविद्यालयस्य एकादशे दीक्षान्तसमारोहे भागं ग्रहीतुं चेन्नईतः तिरुचिरापल्लि-अन्ताराष्ट्रिय-विमानस्थानकं प्राप्तवान्।
विमानस्थानके तमिलनाडुराज्यस्य राज्यपालः राजेन्द्रविश्वनाथ-आर्लेकरः, राज्यस्य उच्चशिक्षामन्त्री पे. विश्वनाथन् तथा च अन्ये वरिष्ठाः अधिकारिणः उपराष्ट्रपतिं स्वागतम् अकुर्वन्। अस्मिन् अवसरे शिक्षासूचनाविभागस्य मन्त्री राजमोहनः तम् एकं पुस्तकमपि उपाहरत्।
विमानस्थानकात् उपराष्ट्रपतिः हेलि-कॉप्टरयानेन तिरुवारूरं प्रति प्रस्थितवान्। तेन सह तमिलनाडुराज्यस्य राज्यपालः राजेन्द्रविश्वनाथ-आर्लेकरः तथा मन्त्री पे. विश्वनाथन् अपि गतवन्तौ। तिरुवारूरे केन्द्रीयविश्वविद्यालयस्य परिसरे निर्मितं अस्थायी-हेलिकॉप्टर-अवतरण-स्थलं प्राप्य उपराष्ट्रपतिः स्थलमार्गेण दीक्षान्त-समारोहम् आयोजनस्थलं प्रति प्रस्थितवान्।
तमिलनाडु-केन्द्रीयविश्वविद्यालयस्य एकादशः दीक्षान्तसमारोहः तिरुवारूरस्य समीपे नीलकुडि-स्थिते विश्वविद्यालय-परिसरे आयोज्यमानः अस्ति। उपराष्ट्रपतिः समारोहे मुख्यातिथिरूपेण भागं गृह्णाति।
दीक्षान्तसमारोहे उपराष्ट्रपतिः विश्व-विद्यालयस्य उत्कृष्टप्रदर्शनं कृतवद्भ्यः विद्यार्थिभ्यः स्वर्णपदकानि उपाधिपत्राणि च प्रदास्यति। तेन सह सः विद्यार्थिभ्यः सम्बोधनमपि करिष्यति।
उपराष्ट्रपतेः यात्रां दृष्ट्वा तिरुचिरापल्लितः तिरुवारूरपर्यन्तं तस्य कार्यक्रमसम्बद्धेषु क्षेत्रेषु व्यापकाः सुरक्षाव्यवस्थाः कृताः सन्ति। स्थानीयप्रशासनेन आरक्षक-अधिकारिभिश्च कार्यक्रमस्य सुचारुरूपेण आयोजनाय आवश्यकाः व्यवस्थाः कृताः सन्ति।
Hindusthan Samachar / Divya Ranjan