Enter your Email Address to subscribe to our newsletters

२ लक्षं श्रद्धालवः दर्शनं कृतवन्तः, रात्रिपर्यन्तं ८ लक्षं भवितुं सम्भावना
उज्जयिनी, १७ अगस्तमासः (हि.स.)। महाकालमन्दिरस्य शिखरस्य तृतीयतले स्थितस्य भगवत: नागचन्द्रेश्वरस्य दर्शनस्य क्रमः निरन्तरं प्रवर्तते। रविवासर-सोमवासरयोः मध्यरात्रेः आरभ्य प्रातः ८ वादनपर्यन्तं प्रायः २ लक्षं श्रद्धालवः दर्शनं कृतवन्तः। सोमवासरे मध्यरात्रौ १२ वादने मन्दिरस्य कपाटानि पुनः एकवर्षस्य कृते पिहितानि भविष्यन्ति।
गत-मध्यरात्रौ १२ वादने मन्दिरस्य कपाटोद्घाटनानन्तरं महानिर्वाणी-अखाडा इत्ययाः महन्तेन विनीतगिरिणा विधि-विधानपूर्वकं भगवत: नागचन्द्रेश्वरस्य पूजनम् अभिषेकश्च कृतः। ततः सामान्यश्रद्धालूनां कृते दर्शनस्य क्रमः प्रारब्धः।
उल्लेखनीयं यत् नागपञ्चमी-पर्वणः अवसरे वर्षे केवलम् एकवारं २४ होराभ्यः भगवत: नागचन्द्रेश्वरमन्दिरस्य कपाटानि उद्घाट्यन्ते।
इयं प्रतिमा नेपालदेशात् आनीता आसीत् तथा च एकादशशताब्द्याः अस्ति। राजा भोजेन अस्याः प्रतिमायाः स्थापना कृता आसीत्।
अद्य श्रावणसोमवारः अपि
अस्मिन् वर्षे नागपञ्चमी-पर्व श्रावण-सोमवासरे एव आगतम् अस्ति। अद्य सायंकाले बाबा महाकालस्य श्रावण-मासस्य तृतीया सवारी अपि भविष्यति। नगरे श्रद्धालूनां महान् सम्मर्द: दृश्यते।
Hindusthan Samachar / Divya Ranjan