Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ अगस्तमासः (हि.स.)। बिहारस्य लखीसराय-मण्डले स्थिते अशोकधाम-शिवमन्दिरे श्रावणमासस्य तृतीयसोमवासरे जाते धावने सप्त श्रद्धालूनां मृत्योः उपराष्ट्रपतिना सी.पी. राधाकृष्णेन, रक्षामन्त्रिणा राजनाथसिंहेन, केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन, दिल्ली इत्यत्र मुख्यमन्त्रिण्या रेखागुप्तया तथा आमआदमीपार्टी इत्यस्य राष्ट्रीय-संयोजकेन अरविन्दकेजरीवालेन सह अनेकैः राजनेतृभिः गहनं दुःखं प्रकटितम्।
उपराष्ट्रपतिना सी.पी. राधाकृष्णेन सामाजिकमाध्यममञ्चे ‘एक्स’-इत्यत्र सन्देशं प्रकाश्य घटनायाः विषये शोकः प्रकटितः। तेन मृतश्रद्धालूनां परिजनेभ्यः समवेदना प्रकटिता तथा च आहतानां शीघ्रस्वास्थ्यलाभाय कामना कृता। तेन अस्यां दुःखदघटनायां प्राणान् त्यक्तवतां श्रद्धालूनां परिवारेभ्यः स्वीयाः संवेदनाः प्रकटिताः।
रक्षामन्त्रिणा राजनाथसिंहेन घटनां हृदयविदारिकाम् इति वर्णितम्। असन्तुलने श्रद्धालूनां मृत्योः गहनं दुःखं प्रकटयता तेन मृतकानां परिवारेभ्यः संवेदना प्रकटिता तथा च अस्मिन् कठिनसमये तेभ्यः स्वीयसहानुभूतिः प्रकटिता।
केन्द्रीयकृषिमन्त्रिणा शिवराजसिंह-चौहानेन अपि दुर्घटनायां दुःखं प्रकटितम्। तेन श्रद्धालूनां मृत्योः बहूनां जनानां च आहतत्वस्य वार्तां अत्यन्तं पीडादायकम् इति वर्णितम्। तेन दिवंगतश्रद्धालूनां परिजनेभ्यः संवेदना प्रकटयता आहतानां शीघ्रस्वास्थ्यलाभाय प्रार्थना कृता।
दिल्ली इत्यत्र मुख्यमन्त्रिण्या रेखागुप्तया अशोकधाम-शिवमन्दिरे जाता दुर्घटना अत्यन्तं दुःखदा पीडादायिका च वर्णिता। तया मृतकानां परिजनेभ्यः संवेदना प्रकटयता उक्तं यत् अस्मिन् कठिनसमये तेभ्यः धैर्यं सम्बलं च प्राप्नुयाताम्। तया आहतानां शीघ्रस्वास्थ्यलाभाय शुभका-मनापि कृता।
आमआदमीपार्टी इत्यस्य राष्ट्रीय-संयोजकेन दिल्ली इत्यत्र पूर्वमुख्य-मन्त्रिणा च अरविन्दकेजरीवालेन अपि लखीसराय-दुर्घटनायां गहनं दुःखं प्रकटितम्। तेन शोकसन्तप्तेभ्यः परिवारेभ्यः संवेदना प्रकटयता धार्मिक-स्थलेषु जनसमूहस्य व्यवस्थापनाय श्रद्धालूनां सुरक्षायै च विशेषसावधानतायाः आवश्यकता अस्ति इति बलं दत्तम्।
Hindusthan Samachar / Divya Ranjan