1942 तमे वर्षे बैरियायां आहूताः 20 क्रांतिकारिणः, जातञ्जनैर्नमनम्
बलिया, 18 अगस्तमासः (हि.स.)। सन १९४२ तमस्य वर्षस्य अगस्तमासे सम्पन्नेन अगस्तक्रान्त्याः आन्दोलनेन सर्वाधिकं प्रभावितेषु जनपदेषु बलिया अग्रणी आसीत्। १९ अगस्त् दिनाङ्के बलियायां आङ्ग्लशासनस्य समाप्तेः पूर्वमेव १८ अगस्त् १९४२ दिनाङ्के बैरियायाः बलिदा
बैरिया बलिदान दिवस पर शहीदों को नमन करते लोग


बलिया, 18 अगस्तमासः (हि.स.)।

सन १९४२ तमस्य वर्षस्य अगस्तमासे सम्पन्नेन अगस्तक्रान्त्याः आन्दोलनेन सर्वाधिकं प्रभावितेषु जनपदेषु बलिया अग्रणी आसीत्। १९ अगस्त् दिनाङ्के बलियायां आङ्ग्लशासनस्य समाप्तेः पूर्वमेव १८ अगस्त् १९४२ दिनाङ्के बैरियायाः बलिदानिभिः स्वपराक्रमेण आङ्ग्लशासकानां मूलानि कम्पितानि आसन्। अस्मिन् सङ्घर्षे अनेकाः सेनानिनः हुतात्मानः अभवन्। तेषां स्मृतौ प्रतिवर्षं बैरियाबलिदानदिवसस्य आयोजनं क्रियते।

अस्मिन्नेव दिवसे द्वाबाक्षेत्रस्य क्रान्तिकारिभिः बैरियास्थितस्य आरक्षकस्थानकस्य उपरि आक्रमणं कृतम् आसीत्। अस्मिन् सङ्घर्षे २० जनाः स्वप्राणान् अर्पितवन्तः तथा प्रायः १५० जनाः आङ्ग्लसैनिकानां गोलिकाभिः आहताः अभवन्।

बैरियाबलिदानदिवसे हुतात्मनां स्मृतिं चिरजीविनीं कर्तुं प्रतिवर्षं बहुसंख्यकाः जनाः तत्र समागच्छन्ति तथा च स्मारके श्रद्धापुष्पाणि समर्पयन्ति। मङ्गलवासरे शतशः जनाः बैरियास्थिते स्मारके श्रद्धापुष्पाणि समर्पितवन्तः। जनैः अमरसेनानिभ्यः पूर्णश्रद्धया नमनं कृतम्।

भाजपादलस्य पूर्वसांसदः वीरेन्द्रसिंहमस्तः अपि पुष्पमालां समर्प्य बलिदानिभ्यः श्रद्धाञ्जलिं दत्तवान्। तेन उक्तं यत् स्वातन्त्र्यान्दोलने बलियायाः बैरियायाश्च महत्त्वपूर्णं स्थानम् अस्ति। येषां सेनानिनां बलिदानेन देशः स्वातन्त्र्यं प्राप्तवान्, तेषां ग्रामान् विकासस्य मुख्यधारया संयोजयितुं सर्वकारः कार्यं कुर्वन् अस्ति।

अस्मिन् अवसरे भाजपादलस्य पूर्वजनपदाध्यक्षः जयप्रकाशसाहूः, विजयबहादुरसिंहः अन्ये च गणमान्याः जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani