भाजपापक्षस्य नूतनस्य राष्ट्रीयदलस्य प्रथमं सभा-समायोजनम् अगस्तमासस्य २२ दिनाङ्के
नवदिल्ली, १८ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य नवनियुक्तस्य राष्ट्रीयदलस्य प्रथमं परिचयात्मकं समागमसभायोजनम् अग्रिम २२ अगस्तमासस्य २०२६ तमे वर्षे अत्र पक्षस्य केन्द्रीयकार्यालये आयोजितं भविष्यति। सूत्राणामनुसारं सभायाः अध्यक्षतां पक्षस्य राष्ट्
नितिन नवीन फाइल फोटो


नवदिल्ली, १८ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य नवनियुक्तस्य राष्ट्रीयदलस्य प्रथमं परिचयात्मकं समागमसभायोजनम् अग्रिम २२ अगस्तमासस्य २०२६ तमे वर्षे अत्र पक्षस्य केन्द्रीयकार्यालये आयोजितं भविष्यति।

सूत्राणामनुसारं सभायाः अध्यक्षतां पक्षस्य राष्ट्रीयाध्यक्षः नितिननवीनः करिष्यति। सभायां नवनियुक्ताः राष्ट्रीय-उपाध्यक्षाः, महामन्त्रिणः, सचिवाः च अन्ये राष्ट्रीय-पदाधिकारिणः भागं ग्रहीष्यन्ति। नूतन-दलस्य गठनानन्तरम् एतत् प्रथमं बृहद् सङ्गठनात्मकं कार्यक्रमं भविष्यति, यस्मिन् सर्वे पदाधिकारिणः परस्परं औपचारिकरूपेण परिचयं प्राप्स्यन्ति। सभायाः प्रमुखम् उद्देश्यं नूतनदलस्य मध्ये परस्परसमन्वयस्य उत्तममिश्रणस्य च स्थापनं वर्तते। तदनन्तरं पक्षस्य आगामी-सङ्गठनात्मककार्यक्रमाणां, दायित्वानां निर्वाचनसज्जतायाश्च विषये अपि चर्चा भवितुं शक्नोति।

सूत्राणां मते सभायां राष्ट्रीयपदाधिकारिभ्यः तेषां दायित्वानां सङ्गठनस्य प्राथमिक-तानां च विषये अवगतं कारयिष्यते। तथैव अग्रिम-निर्वाचनानि दृष्ट्वा सङ्गठनं मतदानकेन्द्रस्तरपर्यन्तम् अधिकं सुदृढं कर्तुं रणनीतिविषये अपि मन्थनं भवितुं शक्नोति।

नितिननवीनस्य नेतृत्वे गठिते नूतने राष्ट्रीयदले युवा-अनुभवीनेतॄणां सन्तु-लनस्य विषये विशेषं बलं प्रदत्तम् अस्ति। अतः अगस्तमासस्य २२ दिनाङ्के आयोज्यमाना सभा नूतनदलस्य मध्ये कार्यविभाजनस्य सङ्गठनस्य दिशा-निर्धारणस्य च दृष्ट्या महत्त्वपूर्णा मन्यते। सभायाः अनन्तरं भाजपापक्षस्य राष्ट्रीय-दलम् आगामीकार्यक्रमेषु निर्वाचन-सज्जतायां च अधिकसक्रियभूमिकां निर्वहन् दृश्यते इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan