कृषकपरिवाराणां साहाय्यिका जाता ‘मुख्यमंत्री कृषक दुर्घटना कल्याण योजना’, राजस्वं वर्धयित्वा योगीसर्वकारः आश्रितेभ्यो दत्तवान् दृढताम्
एकसहस्रपञ्चाशत्कोटिरूप्यकेभ्यः एकसहस्रैकशतकोटिरूप्यकाणि अभवत् बजटम् आश्रितपरिवाराणां सहस्रेषु कृषकपरिवारकल्याणसम्बद्धा योजना प्राप्तवती जनपदानां मागानुसारं धनराशेः आवंटनं विगतवित्तीयवर्षादारभ्य अद्यपर्यन्तं प्रायः अष्टत्रिंशत्सहस्राणि आश्रितपरिवारा
प्रतीकात्मक फोटो


एकसहस्रपञ्चाशत्कोटिरूप्यकेभ्यः एकसहस्रैकशतकोटिरूप्यकाणि अभवत् बजटम् आश्रितपरिवाराणां सहस्रेषु कृषकपरिवारकल्याणसम्बद्धा योजना प्राप्तवती जनपदानां मागानुसारं धनराशेः आवंटनं विगतवित्तीयवर्षादारभ्य अद्यपर्यन्तं प्रायः अष्टत्रिंशत्सहस्राणि आश्रितपरिवाराणि लाभान्वितानि दुर्घटनया मृत्योः दिव्याङ्गतायाश्च स्थितौ पञ्चलक्षरूप्यकपर्यन्तम् आर्थिकसाहाय्यं दातुं प्रावधानम्

लखनऊ, 18 अगस्तमासः (हि. स.)। कृषकाः कृषिश्च प्रदेशस्य अर्थव्यवस्थायाः आधारशिला स्तः। अत एव कृषिकर्मणा सम्बद्धेभ्यः परिवारेभ्यः आर्थिकां सामाजिकां च सुरक्षां प्रदातुं योगिसर्वकारस्य प्राथमिकतासु अन्तर्भवति। मुख्यमन्त्रिकृषकदुर्घटनाकल्याणयोजना अस्याः संवेदनशीलचिन्तनधारायाः प्रभाविरूपेण समक्षम् आगता अस्ति। दुर्घटनायाः स्थितौ कृषकं तस्य परिवारं च आर्थिकसङ्कटात् परित्रातुं प्रारब्धायाः अस्याः योजनायाः कृते सर्वकारेण निरन्तरं सुदृढः बजटीयाधारः प्रदत्तः अस्ति। कोटिरूप्यकाणां प्रावधानस्य सह बहुसंख्यकानां आश्रितपरिवाराणां लाभप्राप्तिः योजनायाः व्यापकप्रभावं प्रदर्शयति। अस्याः योजनायाः अन्तर्गतं विगतवित्तीयवर्षादारभ्य अद्यपर्यन्तं अष्टत्रिंशत्सहस्राधिकाः आश्रिताः लाभान्विताः कृताः सन्ति।

मुख्यमन्त्रिकृषकदुर्घटनाकल्याणयोजना चतुर्दशसितम्बरमासस्य वर्षे द्विसहस्रएकोनविंशतितमे वर्षे प्रवर्तिता। योजनायाः अन्तर्गतं दुर्घटनया मृत्योः दिव्याङ्गतायाश्च स्थितौ अधिकतमं पञ्चलक्षरूप्यकाणाम् आर्थिकसाहाय्यं प्रदातुं प्रावधानम् अस्ति। योजनायाः क्षेत्रमपि व्यापकं कृतम् अस्ति, येन कृषिकार्येण सम्बद्धेभ्यः पात्रपरिवारेभ्यः सङ्कटकाले सर्वकारीयसाहाय्यं प्राप्तुं शक्नुयात्। खसौनीपत्रे पञ्जीकृतेभ्यः खातेदारसहखातेदाराभ्यां सह ते अर्जनशीलाः पारिवारिकसदस्याः अपि अस्याः योजनायाः क्षेत्रे अन्तर्भवन्ति, येषां जीविकायाः मुख्यं स्रोतः खातेदारस्य सहखातेदारस्य वा नाम्ना पञ्जीकृतभूमेः कृष्यायः भवति। पट्टितायां वा बटाईभूमौ कृषिं कुर्वन्तः पात्रभूमिहीनकृषकाः अपि योजनायाः लाभं प्राप्तुं शक्नुवन्ति।

विगतवित्तीयवर्षे एकविंशतिसहस्राधिकपरिवाराणां प्राप्तो लाभः

अस्याः योजनायाः बजटे निरन्तरं वर्धमाना धनराशिः सर्वकारस्य प्राथमिकतामपि प्रदर्शयति। राजस्वविभागस्य अनुसारं वित्तीयवर्षे द्विसहस्रपञ्चविंशत्यधिकद्विसहस्रषड्विंशतितमे मुख्यमन्त्रिकृषकदुर्घटनाकल्याणयोजनायै एकसहस्रपञ्चाशत्कोटिरूप्यकाणां प्रावधानं कृतम्। जनपदानां मागानुसारं सम्पूर्णधनराशेः आवंटनं कृतम् तथा च तेन एकविंशतिसहस्रषट्शतपञ्चोनषष्टिः आश्रितपरिवाराः लाभान्विताः अभवन्। इयं योजना आवश्यकताकाले कृषकपरिवाराणां समीपम् आर्थिकसाहाय्यं प्रापयितुं प्रभावीमाध्यमरूपेण कार्यं कुर्वती अस्ति।

चालूवित्तीयवर्षे सप्तदशसहस्राधिकाः आश्रिताः लाभान्विताः

वित्तीयवर्षे द्विसहस्रषड्विंशत्यधिकद्विसहस्रसप्तविंशतितमे सर्वकारेण योजनायाः बजटं पुनः वर्धयित्वा एकसहस्रैकशतकोटिरूप्यकाणां प्रावधानं कृतम्। अर्थात् विगतवित्तीयवर्षस्य तुलनया बजटे शतकोटिरूप्यकाणां वृद्धिः कृता अस्ति। अस्य सापेक्षे प्रथमद्वितीयकिस्तरूपेण अष्टशतद्विषष्ट्यधिकपञ्चाशत्कोटिरूप्यकाणां वित्तीयस्वीकृतिः प्राप्ता अस्ति। जनपदानां मागानुसारं त्रयोदशाधिकाष्टशतकोटिरूप्यकाणां धनराशेः आवंटनमपि कृतम् अस्ति। अनेन माध्यमेन अद्यपर्यन्तं सप्तदशसहस्रैकशतद्विपञ्चाशत् आश्रितपरिवाराः लाभान्विताः अभवन्। वित्तीयवर्षम् अद्यापि प्रवर्तमानम् अस्ति, अतः एषः सङ्ख्यात्मकः विवरणः अग्रे अधिकं वर्धितुं शक्नोति।

योजनायाः प्रगतेः कृते भवति निरीक्षणम्

राज्यसर्वकारस्य प्रवक्त्रा मङ्गलवासरे उक्तं यत् राजस्वविभागः योजनायाः सुचारुसञ्चालने पारदर्शितायां च निरन्तरं बलं ददाति। योजनायाः विशेषता केवलं बजटवर्धनपर्यन्तं सीमिता नास्ति। जिलाधिकारिभ्यः समये समये आवश्यकाः निर्देशाः प्रदीयन्ते। योजनायै विकसितं पोर्टल मुख्यमन्त्रिदर्शकेन सह एकीकृतम् अस्ति, येन योजनायाः प्रगतेः निरीक्षणं क्रियान्वयनस्य च अधिकं प्रभाविरूपेण सञ्चालनं कर्तुं साहाय्यं भवति।

Hindusthan Samachar / Dheeraj Maithani