Enter your Email Address to subscribe to our newsletters

रायपुरम् 18 अगस्तमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे मन्त्रालये विभिन्नविभागानां कार्याणां समीक्षां करिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री मध्याह्ने १२ वादनम् २५ निमेषाः गते मन्त्रालयं प्राप्स्यति तथा सायं ५ वादनपर्यन्तं विभागवारोपवेशनेषु सम्मिलितः भूत्वा योजनानां प्रगतिम्, विकासकार्याणि प्रशासनिकगतिविधीश्च समीक्षिष्यति। निर्धारितकार्यक्रमानुसारं मन्त्रालये समीक्षोपवेशनानां क्रमः सायं ५ वादनपर्यन्तं प्रचलिष्यति। ततः मुख्यमन्त्री सायं ५ वादनम् २५ निमेषेभ्यः मन्त्रालयात् प्रस्थाय मुख्यमन्त्रिनिवासं प्रत्यागमिष्यति।
Hindusthan Samachar / Dheeraj Maithani