Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, १८ अगस्तमासः (हि.स.)। मुख्यमन्त्री उमर अब्दुल्ला अद्य जम्मू-कश्मीरे प्रथमस्य अन्ताराष्ट्रियचलचित्र-महोत्सवस्य २०२६ इत्यस्य अन्तिम-सज्जतायाः समीक्षार्थम् एकस्य उच्चस्तरीयस्य सभायाः अध्यक्षतां कृतवान्। अयं महोत्सवः सितम्बरमासस्य ७ दिनाङ्कात् १० दिनाङ्कपर्यन्तं श्रीनगरे जम्मूनगरे च आयोजितः भविष्यति।
चतुर्दिवसीयः अयं महोत्सवः चलचित्र-कलायाः उत्कृष्टतां, सांस्कृतिक-विनिमयं, सृजनात्मकसहयोगं तथा उदयमानानां चलचित्रनिर्माण-प्रतिभानां प्रोत्साहनं च प्रयच्छन् प्रमुखः अन्ताराष्ट्रियमञ्चः इति परिकल्पितः अस्ति। एतत् विभिन्नदेशानां चलचित्रजगता सह सहभागितां स्थापयितुं तथा जम्मू-कश्मीरे समृद्धां सांस्कृतिकीं चलच्चित्रसम्बद्धां च परम्परां प्रदर्शयितुं अवसरं प्रदास्यति।
सूचनाआयुक्तसचिवः आर. एलिस वाज़ इत्याख्यः मुख्यमन्त्रिणे महोत्सवस्य विषये विस्तृतां सूचनां दत्तवान्। तत्र अन्ताराष्ट्रियप्रतियोगिता, ‘सिनेमा ऑफ द वर्ल्ड’, ‘भारत पैनोरमा’, ‘जम्मू-कश्मीर सेलेक्ट’, ‘श्रेष्ठनवोदितचलच्चित्रम्’, वृत्तचित्रम्, संकरचलचित्राणि तथा लघु-चलचित्राणि इत्यादिषु वर्गेषु चलचित्रप्रदर्शनानि भविष्यन्ति। कार्यक्रमे चलचित्रनिर्मातृभिः, अभिनेतृभिः, समीक्षकैः, विद्वद्भिः तथा चलच्चित्रोद्योगस्य अन्यैः प्रमुखव्यक्तिभिः सह विशेषज्ञवर्गाः, विचारगोष्ठ्यः, संवादसत्राणि, गोलमेज-सम्मेलनानि तथा कार्यशालाः अपि आयोजिताः भविष्यन्ति।
सभायां प्रमुखमहोत्सवस्थलानां व्यवस्थायाः समीक्षा कृता। एतेषु शेर-ए-कश्मीर-अन्ताराष्ट्रियसम्मेलनकेन्द्रम्, इनाक्श शिवपोरा श्रीनगर तथा वेव्स सिनेमा जम्मू इत्यादीनि स्थलानि सम्मिलितानि सन्ति। ललितघट्टे प्रस्तावितस्य चलच्चित्रगृहस्य व्यवस्थायाः अपि समीक्षा कृता। चयनितचलचित्र-निर्मातृभ्यः गुलमर्गभ्रमणस्य सज्जतायाः विषये अपि चर्चा कृता, यस्मिन् गोण्डोला, गोल्फक्रीडाक्षेत्रम्, गुलमर्गक्लब तथा अन्येषां प्रमुखाकर्षणस्थलानां भ्रमणं सम्मिलितं भविष्यति।
मुख्यमन्त्री चलचित्रनिर्मातृभ्यः, कलाकारेभ्यः, प्रतिनिधिभ्यः, अतिथिभ्यः तथा दर्शकेभ्यः सुगमम् अनुभवं सुनिश्चितुं विभागान्तरसमन्वयस्य सर्वासां व्यवस्थानां च समये पूर्णतायाः आवश्यकतायै बलं दत्तवान्। सः सर्वेषां सम्बद्धविभागानां संस्थानां च पूर्णतया सज्जानां भवितुं निर्देशं दत्तवान् तथा महोत्सवस्य प्रारम्भात् पूर्वं तस्य प्रत्येकं पक्षं सुचारुरूपेण व्यवस्थितं भवेत् इति सुनिश्चितुं कथितवान्।
उमर अब्दुल्ला महोत्सवस्य अवधौ जम्मू-कश्मीरस्य समृद्धां परम्परां, व्यञ्जनानि, हस्तशिल्पानि, पारम्परिककलारूपाणि तथा प्रसिद्धानि पर्यटनस्थलानि प्रमुखतया प्रदर्शयितुं आह्वानं कृतवान्।
सः बलपूर्वकं प्रतिपादितवान् यत् अन्ताराष्ट्रियचलचित्रमहोत्सवं वैश्विक-चलचित्रपञ्चाङ्गे प्रमुखवार्षिक-कार्यक्रमरूपेण स्थापयितुं सर्वेषां हितधारकाणां मध्ये सावधानतापूर्वकं योजना तथा निर्बाधसमन्वयः आवश्यकौ भविष्यतः।
सभायां सुरक्षाव्यवस्थायाः, यातायात-व्यवस्थायाः, विमानपत्तन-सुविधायाः, आतिथ्यस्य, शिष्टाचारस्य, आवासस्य, परिवहनस्य, चिकित्सा-सुविधानां, विद्युत्प्रदायस्य, स्वच्छतायाः, सौन्दर्यी-करणस्य, आयोजन-स्थलस्य सज्जतायाः तथा अन्यासां रसदसम्बद्धानां आवश्यकतानां च समीक्षा कृता। सूचनाविभागस्य तथा आगन्तुकानां अतिथीनां मध्ये समन्वयं सुकरं कर्तुं समर्पितसम्पर्काधिकारिणः नोडलाधिकारिणश्च नियुक्ताः क्रियन्ते।
सूचनाविभागाय विभागीयदायित्वानि, समयसीमाः, प्रगतिः तथा लम्बितविषयाः इत्येतान् समावेशयन्तीं समेकित-कार्ययोजनां धारयितुं दायित्वं प्रदत्तम्। आमन्त्रणानां, प्रतिभागिनां सुविधानां तथा माध्यमव्यवस्थायाः समन्वयस्य कार्यमपि तस्मै विभागाय प्रदत्तम् अस्ति।
Hindusthan Samachar / Divya Ranjan