Enter your Email Address to subscribe to our newsletters

– पूर्वं पञ्चसु सकारात्मक-स्वदेशीकरणसूचीषु ५,०१२ वस्तूनि समाविष्टानि
नवदिल्ली, १८ अगस्तमासः (हि.स.)। रक्षामन्त्रालयेन मङ्गलवासरे षष्ठी सकारात्मकस्वदेशीकरणसूचीः प्रकाश्य ४०५ वस्तूनाम् आयाते प्रतिबन्धः आरोपितः। अस्यां सूच्यां सामरिकदृष्ट्या महत्त्वपूर्णाः लाइन-रिप्लेसेबल्-यूनिट्, उपप्रणाल्यः, उपसंयोजनानि, अतिरिक्त-भागाः, घटकाः, अपक्वद्रव्यं च समाविष्टानि सन्ति। एतानि सर्वाणि वस्तूनि अधुना पृथक्-पृथक् समयसीमासु केवलं स्वदेशीयस्रोतेभ्यः एव क्रेष्यन्ते। एतेषु भारतीयतटरक्षकदलस्य १६ वस्तूनि तथा सार्वजनिकक्षेत्रस्य रक्षोपक्रमाणां ३८९ वस्तूनि सन्ति।
रक्षामन्त्रालयस्य अनुसारम् आयाताय प्रतिबन्धितानि एतानि वस्तूनि रक्षामञ्चानां प्रणालीनां च विस्तृतां शृङ्खलां समावृण्वन्ति। तेषु वायुसेनायाः कृते उन्नतप्रकाश-हेलिकॉप्टरयानं, लाइट्-यूटिलिटी-हेलिकॉप्टरयानं, एसयू-३० एमकेआई, लाइट्-कॉम्बैट्-एयरक्राफ्ट् तथा एएल-३१एफपी-इञ्जिन इत्यादयः वायुमञ्चाः सन्ति। तथैव सेनायाः टी-७२, टी-९० तथा बीएमपी-द्वितीय इत्यादयः बख्तरबन्दमञ्चाः अपि अस्यां सूच्यां समाविष्टाः सन्ति। नौसेनायाः युद्धपोतानां कृते कोंकर्स-एम, इन्वार तथा एमआरएसएएम् इत्यादयः क्षेपणास्त्र-प्रणाल्यः, राडार, सोनार, अग्निनियन्त्रण-प्रणाली तथा उपग्रहसञ्चारप्रणाली इत्यादीनि रक्षाविद्युत्-उपकरणानि, उच्च-विस्फोटकानि टङ्क्-विरोधि-गुटिका-स्त्राणि तथा अन्यानि महत्त्वपूर्णानि रक्षोपकरणानि च अधुना आयातयितुं न शक्यन्ते।
मन्त्रालयस्य अनुसारम् एतेषां वस्तूनां विस्तृता सूची सृजन-पटलं (srijandefence.gov.in) इत्यत्र अपि उपलब्धा अस्ति। प्रत्येकस्य वस्तुनः स्वदेशीकरणाय सांकेतिकसमयसीमा निर्दिष्टा अस्ति। स्वदेशीकरणे सफलतां प्राप्ते सति एतेषां वस्तूनां क्रयणं भारतीयरक्षोद्योगात् एव करिष्यते। डीपीएसयू तथा आईसीजी उद्योगाः, विशेषतः सूक्ष्म-लघु-मध्यमोद्यमानां सहभागितया, स्वनिर्माणप्रक्रियायाः आन्तरिकविकासस्य च माध्यमेन विविधैः उपायैः स्वदेशीकरणकार्यं करिष्यन्ति। षष्ठ्या सकारात्मकस्वदेशीकरणसूच्या गृहरक्षा-निर्माणव्यवस्थां सुदृढां कर्तुं, निवेशं नवाचारं च प्रोत्साहितुं तथा आयातनिर्भरता न्यूनीकर्तुं योगदानं भविष्यति इति अपेक्ष्यते।
रक्षोत्पादनविभागेन अगस्तमासे २०२० तमे वर्षे सृजन-रक्षापटलं प्रारब्धम्। अस्य माध्यमेन सार्वजनिकक्षेत्रस्य रक्षोपक्रमाः तथा सेवामुख्यालयाः स्वदेशीयविकासाय उत्पादनाय च लघु-मध्यमोद्यमेभ्यः स्टार्टअप-संस्थाभ्यश्च उद्योगाय रक्षा-सामग्रीम् उपलब्धां कारयन्ति। प्रारम्भात् एव अस्य पटलस्य माध्यमेन जून २०२६ पर्यन्तं रक्षोपक्रमेभ्यः सेवामुख्यालयेभ्यश्च स्वदेशीकरणाय ३३ सहस्राधिकानां रक्षासामग्रीणाम् उपलब्ध-तायै सुविधा प्रदत्ता अस्ति। एतेषु प्रथमासु पञ्चसु सकारात्मक-स्वदेशीकरणसूचीषु अधिसूचितानि ५,०१२ वस्तूनि अपि सन्ति।
गतपञ्चवर्षेषु १५,७०० अधिकानि रक्षावस्तूनि स्वदेशीकृतानि सन्ति, येन प्रायः ९,००० कोटिरूप्यकाणाम् आयात-प्रतिस्थापनस्य अनुमानम् अस्ति। तदतिरिक्तं रक्षोपक्रमैः मार्चमासपर्यन्तं स्वदेशीयोत्पादानाम् अन्तर्भावेन गृहविक्रेतृभ्यः प्रायः १०,००० कोटि-रूप्यकाणां क्रयादेशाः प्रदत्ताः सन्ति।
Hindusthan Samachar / Divya Ranjan