Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ अगस्तमासः (हि.स.)। केन्द्रीयकृषि-कृषककल्याणमन्त्री शिवराजसिंहचौहानः मङ्गलवासरे अवदत् यत् विकसितभारतस्य लक्ष्यं कृषिक्षेत्रस्य विकासं विना प्राप्तुं न शक्यते। सः कृष्यनुसन्धानं कृषकाणां, विपणानां तथा उपभोक्तॄणां आवश्यकतानुसारं कर्तुं, प्रयोगशालायां विकसितानां प्रौद्योगिकीनां शीघ्रं कृषिक्षेत्रेषु प्रेषणाय च बलं दत्तवान्। राष्ट्रीयकृषिविज्ञानपरिसरे भारतीय-कृष्यनुसन्धानपरिषदः ९७तम्याः वार्षिक-सामान्यसभायाः अध्यक्षतां कुर्वन् चौहानः अवदत् यत् अधुना केवलं खाद्यान्नोत्पादनस्य वृद्धिः पर्याप्ता नास्ति। भारतं क्षेत्रात् वैश्विकविपण्यपर्यन्तं स्वस्य सुदृढां परिचयं निर्मातुमर्हति। सः अवदत् यत् अनुसन्धानस्य वास्तविकं मूल्यं तदैव भवति, यदा तस्य समाधानं समुचितसमये कृषकं प्राप्नोति तथा च तस्य प्रत्यक्षः मापनीयश्च लाभः दृश्यते।
एकीकृतकृषिप्रणाल्या आयवर्धने बलम्
कृषिमन्त्री लघुसीमान्तकृषकाणाम् आयवर्धनाय एकीकृतकृषिप्रणालीं महत्त्वपूर्णां प्रतिपादितवान्। सः सस्योत्पादनेन सह पशुपालनं, मत्स्य-पालनं, कुक्कुटपालनं, उद्यानपालनं तथा मधुमक्षिकापालनम् इत्यादीनां क्रिया-कलापानां संयोजनाय बलं दत्तवान्। तस्य मतानुसारं अनेन कृषकाणाम् आयस्य स्रोतांसि वर्धिष्यन्ते, व्ययः न्यूनीभविष्यति तथा च सम्पूर्णवर्षे आयस्य अवसरः प्राप्स्यते। सः गुणवत्तापूर्णानां बीजानां तथा रोपणसामग्रीणां समये उपलब्धतायै, उर्वरकाणां सन्तुलितो-पयोगाय, मृदास्वास्थ्याय तथा स्थायिकृषि-पद्धतीनां प्रोत्साहनाय अपि प्राथमिकतां दातुं कथितवान्।
आईसीएआर-उद्योगयोः सहभागिता सुदृढीकरणस्य आवश्यकता
शिवराजसिंहचौहानः कृषिप्रौद्योगिकीनां प्रयोगशालातः कृषिक्षेत्रपर्यन्तं प्रेषणे आईसीएआर-संस्थायाः उद्योगस्य च मध्ये सुदृढसहभागितायाः आवश्यकतां प्रतिपादितवान्। सः अवदत् यत् नवाचारः केवलं विचाररूपेण अथवा शोधपत्ररूपेण सीमितः न भवेत्, अपितु तस्य व्यावहारिकसमाधाने तथा भूमिस्तरीय-प्रभावे परिवर्तनम् आवश्यकम् अस्ति। सः वैज्ञानिकानां, नीतिनिर्मातॄणां, कृषकाणां तथा उद्योगजगतः प्रतिनिधीनां मध्ये संवादवर्धनाय तथा अनुसन्धानस्य लक्ष्याणां स्पष्टप्राथमिकतानिर्धारणाय आह्वानं कृतवान्।
आईसीएआर-संस्थायाः महानिदेशकः तथा कृष्यनुसन्धानशिक्षाविभागस्य सचिवः डॉ. एम.एल. जाटः परिषदः उपलब्धीः प्रस्तुतवान्। सः अवदत् यत् विगतेषु वर्षेषु ३८६ नूतनाः सस्यप्रभेदाः विमोचिताः। तेषु ९४ प्रतिशतं जलवायुप्रतिरोधकाः तथा २९ प्रतिशतं जैवसंवर्धिताः प्रभेदाः सन्ति। सः अवदत् यत् खाद्यान्नोत्पादने प्रायः १९ मिलियनटनमितां वृद्धिः अभवत्। जीनोमिक्स्, जीनोम-सम्पादनम्, पशुधन-स्वास्थ्यं, मत्स्यपालनम्, मृदा-स्वास्थ्यं तथा प्राकृतिककृषिः इत्येतेषु क्षेत्रेषु अपि महत्त्वपूर्णः प्रगतिः अभवत्। डॉ. जाटस्य अनुसारं गतवर्षे प्रायः ८०५ बौद्धिक-सम्पदाधिकारसम्बद्धानि आवेदनपत्राणि प्रस्तुतानि, यदा तु ३६ संस्थासु प्रौद्योगिकीनां वाणिज्यीकरणं सुदृढीकृतम्।
केन्द्रीयकृषिराज्यमन्त्री भागीरथचौधरी अवदत् यत् २०१४ तमवर्षात् परं कृषिक्षेत्रे सम्बद्धक्षेत्रेषु च महत्त्वपूर्णः विकासः अभवत्। अधुना अग्रिमा प्राथमिकता कृषिक्षेत्रे आत्मनिर्भरत्वस्य प्राप्तिः अस्ति। सः दलहनानां, तिलहनानां, बीजानां, पशुधनस्य तथा मूल्यवर्धितप्रसंस्करणस्य क्षेत्रेषु आत्मनिर्भरत्ववर्धनाय बलं दत्तवान्। सः जलवाय्वनुकूलकृषेः, मृदास्वास्थ्यस्य तथा स्थायिसंसाधनप्रबन्धनस्य प्रोत्साहनेन सह कृषकाणाम् आयवर्धनाय कृषक-उत्पादकसङ्घटनानां सुदृढीकरणस्य आवश्यकताम् अपि प्रतिपादितवान्।
केन्द्रीयमत्स्यपालन-पशुपालन-डेयरीराज्यमन्त्री एस.पी. सिंहबघेलः कृषिक्षेत्रे, दुग्धक्षेत्रे तथा मत्स्यक्षेत्रे प्राप्तां प्रगतिम् उल्लिख्य कृषेः सह पशुपालनस्य, दुग्धोत्पादनस्य, मत्स्यपालनस्य तथा कुक्कुटपालनस्य अधिकसमाकलनाय बलं दत्तवान्।
सभायां आईसीएआर-संस्थायाः २०२५-२६ वर्षस्य वार्षिकप्रतिवेदनं तथा २०२४-२५ वर्षस्य वार्षिकलेखाः प्रस्तुताः। कृष्यनु-सन्धानस्य विकासस्य च कृते उद्योगैः तथा सीएसआर-दातृभिः सह सहभागितां सुदृढीकर्तुं उद्देश्येन सहमतिपत्रेषु अपि हस्ताक्षराणि कृतानि। सभायां आईसीएआर-संस्थायाः चत्वारः प्रकाशन-ग्रन्थाः विमोचिताः तथा परिषदः नियमेषु उपनियमेषु च संशोधनस्य विषये अपि विचारः कृतः।
Hindusthan Samachar / Divya Ranjan