Enter your Email Address to subscribe to our newsletters

कानपुरम्, 18 अगस्तमासः (हि.स.)।साइबरसुरक्षाशिक्षां बृहद्स्तरे विद्यार्थिभ्यः प्रापयितुं भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य सी३आईहब् इत्यनेन डॉ. भीमराव आंबेडकरविश्वविद्यालयस्य आगरा तथा विवेकानन्दइन्क्यूबेशनफाउण्डेशन इत्येताभ्यां सह त्रिपक्षीयः सहमतिः कृता। अस्य अन्तर्गतं विश्वविद्यालयेन सम्बद्धेषु ५७० अधिकेषु महाविद्यालयेषु अध्ययनं कुर्वतां त्रिलक्षाधिकविद्यार्थिनां कृते हिन्दीभाषायाम् अन्तर्जालीयव्यावसायिकपाठ्यक्रमः प्रारभ्यते।
पाठ्यक्रमस्य उद्देश्यम् अस्ति यत् विद्यार्थिभ्यः साइबरसुरक्षायाः मूलभूतज्ञानस्य सह व्यावहारिककौशलमपि प्रदीयेत। अयं पाठ्यक्रमः विशेषरूपेण अर्धनगरीयेषु ग्रामीणक्षेत्रेषु च निवसतां विद्यार्थिनां आवश्यकतां दृष्ट्वा निर्मितः अस्ति, येन भाषा तान्त्रिकशिक्षायाः मार्गे बाधा न भवेत्।
समझौतेपत्रे भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य सङ्गणकविज्ञानाभियांत्रिकीविभागस्य प्राध्यापकः, सी३आईहबस्य कार्यक्रमनिदेशकः विभागाध्यक्षश्च प्रो. सुरेन्द्रबसवाना, डॉ. भीमराव आंबेडकरविश्वविद्यालयस्य आईक्यूएसीस्य विवेकानन्दइन्क्यूबेशनफाउण्डेशनस्य च निदेशकः प्रो. सञ्जयचौधरी तथा विश्वविद्यालयस्य सङ्गणककेन्द्रस्य निदेशकः प्रो. अनिलगुप्तः हस्ताक्षरं कृतवन्तः।
अस्य सहयोगस्य अन्तर्गतं सी३आईहब् स्वकीयानुसन्धानस्य प्रशिक्षणानुभवस्य च आधारेण पाठ्यक्रमं निर्मास्यति तस्य सञ्चालनं च करिष्यति। विवेकानन्दइन्क्यूबेशनफाउण्डेशन कार्यक्रमस्य व्यापकसञ्चालनाय प्रशासनिकं तान्त्रिकं च सहयोगं प्रदास्यति। विश्वविद्यालये साइबरसुरक्षापरामर्शकेन्द्रमपि स्थापितं भविष्यति। तत् साइबरापराधेभ्यः सुरक्षायै, जागरूकतावर्धनाय तथा विद्यार्थिभ्यः सहाय्यप्रदानाय कार्यं करिष्यति।
डॉ. भीमराव आंबेडकरविश्वविद्यालयस्य आगरा कुलपतिः प्रो. आशुराणी मङ्गलवासरे अवदत् यत् ५७० अधिकेषु सम्बद्धेषु महाविद्यालयेषु लक्षशः विद्यार्थी अध्ययनरताः सन्ति। अतः भविष्यस्य आवश्यकतानुसारं तेषां सिद्धतां सम्पादयितुं विश्वविद्यालयस्य दायित्वम् अस्ति। साइबरसुरक्षा केवलम् अभियान्तृणां कृते सीमितः विषयः नास्ति, अपितु प्रत्येकस्य व्यक्तेः कृते आवश्यकं जीवनकौशलम् अधुना अभवत्। भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य सी३आईहब् तथा विवेकानन्दइन्क्यूबेशनफाउण्डेशन इत्येताभ्यां सह कृता एषा साझेदारी विद्यार्थिभ्यः तेषां स्वकीयभाषायां बृहद्स्तरे साइबरसुरक्षायाः शिक्षां प्रदातुं सहाय्यं करिष्यति।
समझौताहस्ताक्षरसमारोहे भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य निदेशकः प्रो. मणीन्द्रअग्रवालः सहिताः अनेकाः अतिथयः उपस्थिताः आसन्। कुलपतिः प्रो. आशुराणी अन्तर्जालीयमाध्यमेन समारोहे सम्मिलिता अभवत्। छत्रपतिशाहूजीमहाराजविश्वविद्यालयस्य कुलपतिः तथा भारतीयविश्वविद्यालयसङ्घस्य अध्यक्षः प्रो. विनयकुमारपाठकः अपि अस्मिन् अवसरे उपस्थितः आसीत्।
Hindusthan Samachar / Dheeraj Maithani