Enter your Email Address to subscribe to our newsletters

रायगढः, १८ अगस्तमासः (हि.स.)। शिशूनां लघुबालकानां च उत्तमस्वास्थ्यस्य, पोषणस्य, रोगेभ्यः संरक्षणस्य च उद्देशेन छत्तीसगढस्य रायगढजनपदे शिशुसंरक्षण-मासस्य आयोजनं क्रियमाणम् अस्ति। अभियानस्य जनपदस्तरीयः शुभारम्भः अगस्तमासस्य १८ दिनाङ्के नगरीय-प्राथमिक-स्वास्थ्यकेन्द्रस्य मोदीनगरस्य परिसरे करिष्यते।
जिलाधीशस्य मयङ्कचतुर्वेदिनः निर्देशानुसारम् अभियानस्य अवधौ जनपदस्य ग्रामीणेषु नगरीयेषु च क्षेत्रेषु आयोजितेषु विभिन्नेषु टीकाकरणसत्रेषु बालकेभ्यः गर्भवतीभ्यः मातृभ्यश्च आवश्यकाः स्वास्थ्यसेवाः टीकाकरण-सेवाश्च प्रदास्यन्ते।
Hindusthan Samachar / Divya Ranjan