सीजीएल इत्यनया सह टीडीपीएल द्वारा आयोजिताः सर्वाः परीक्षाः निरस्ताः, मुख्यमन्त्रिणा घोषणा कृता
राञ्ची, १७ अगस्तमासः (हि.स.)। छात्राणाम् आन्दोलनस्य २४ तमे दिने राज्यसर्वकारेण महत्त्वपूर्णं पदक्षेपं स्वीकृत्य टीडीपीएल-संस्थया आयोजिताः जेपीएससी-जेएसएससी-सर्वाः परीक्षाः निरस्तुं निर्णयः कृतः। सोमवासरे मुख्यमन्त्रिणः हेमन्त-सोरेनस्य नेतृत्वे सम्प
मुख्यमंत्री मीडिया को जानकारी देते


राञ्ची, १७ अगस्तमासः (हि.स.)। छात्राणाम् आन्दोलनस्य २४ तमे दिने राज्यसर्वकारेण महत्त्वपूर्णं पदक्षेपं स्वीकृत्य टीडीपीएल-संस्थया आयोजिताः जेपीएससी-जेएसएससी-सर्वाः परीक्षाः निरस्तुं निर्णयः कृतः। सोमवासरे मुख्यमन्त्रिणः हेमन्त-सोरेनस्य नेतृत्वे सम्पन्ने मन्त्रिपरिषदः विशेषाधिवेशने एतत् निर्णयं गृहीतम्। तदतिरिक्तं जेएसएससी-संस्थया आयोजितां सीजीएल-परीक्षामपि निरस्तुं राज्यसर्वकारेण निर्णयः कृतः।

मुख्यमन्त्री हेमन्तसोरेनः मन्त्रिपरिषदः सभाया: उत्तरं वार्ताहरान् सम्बोधयन् अवदत् यत् मन्त्रिपरिषदः चतुर्दशस्य जेपीएससी-पीटी-परीक्षायाः अतिरिक्तं वर्ष २०२३ तथा २०२५ इत्येतयोः बैकलॉग-परीक्षयोः अपि निरस्तीकरणस्य निर्णयं कृतवती अस्ति। स: अवदत् यत् सर्वकारः छात्रैः सह अस्ति तथा च तेषां याचनानां विचारं कृत्वा एषः निर्णयः गृहीतः।

सः अवदत् यत् सीजीएल-परीक्षायाः अन्वेषणार्थं गठितस्य एसआईटी-दलस्य सीआईडी-संस्थायाश्च अद्यावधि-प्रतिवेदना-नुसारं कतिपयाः विषयाः समुपलब्धाः सन्ति, येषु अनियमिततायाः सङ्केताः प्राप्यन्ते। जेपीएससी-पीटी-परीक्षायां गृहीतस्य छात्रस्य सीजीएल-परीक्षायामपि भूमिका दृष्टा अस्ति। अतः सर्वकारेण सीजीएल-परीक्षां निरस्तुं निर्णयः कृतः।

आईएएस-अमिताभकौशलस्य नेतृत्वे राज्यसर्वकारेण जेपीएससी-जेएसएससी-सुधारार्थं समितिः गठिता अस्ति। मुख्यमन्त्री हेमन्तसोरेनः अवदत् यत् पूर्वमेव मानकसञ्चालनप्रक्रिया निर्मिता अस्ति। यदि तस्याः सम्यक् पालनं कृतम् अभविष्यत् तर्हि एतादृशी परिस्थितिः न अभविष्यत्। तदतिरिक्तं राज्यसर्वकारेण सुधारार्थं जनानां विचारा: अपि आमन्त्रिताः सन्ति, ये पश्चात् प्रक्रियायां समावेशयिष्यन्ते।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारेण २०१४ तमवर्षात् अद्यावधि आयोजितानां सर्वासां परीक्षाणाम् अन्वेषणं कारयितुं निर्णयः कृतः अस्ति तथा च अस्मिन् विषये कार्यवाही प्रचलति। छात्राणां मागानुसारं सर्वकारेण गठिता मन्त्रिसमितिः गत-दिवसेषु अनेकवारं वार्ताम् अपि अकरोत्। तत्र सीजीएल-परीक्षायाः अथवा अन्यासां परीक्षाणाम् अन्वेषणं सेवानिवृत्तेन उच्चन्यायालयस्य न्याया-धीशेन कारयितुं प्रस्तावः अपि आसीत्, किन्तु अस्मिन् विषये सहमतिः न अभवत्। सभायां सीजीएल-परीक्षामपि निरस्तुं निर्णयः कृतः।

मुख्यमन्त्रिणा एतदपि घोषितं यत् गतदिवसेषु यथा केन्द्रसर्वकारेण माइन्स एण्ड मिनरल डेवलपमेण्ट एक्ट् इत्यस्मिन् संशोधनं कृत्वा खनिजेषु राज्यस्य प्राप्तेः उपकरस्य अधिकारः अपहृतः, तद्विषये शीघ्रमेव विधानसभायाः विशेषसत्रम् आह्वयिष्यते तथा च अस्मिन् विषये पृथग् सभापि भविष्यति।

टीडीपीएल-संस्थया आयोजिताः एताः परीक्षाः

चतुर्दशा जेपीएससी-सिविल-सेवा-पीटी-परीक्षा।झारखण्ड-पात्रता-परीक्षा (जेट्)।सहायक-लोकाभियोक्तृ-परीक्षा।कारखानानिरीक्षक-परीक्षा।सिविल-जज्-जूनियर-परीक्षा।झारखण्ड-वनरक्षक-प्रतियोगिता-परीक्षा।झारखण्ड-पीजीटी-परीक्षा।

Hindusthan Samachar / Divya Ranjan