Enter your Email Address to subscribe to our newsletters

रांची, 18 अगस्तमासः (हि.स.)।
झारखण्डस्य मुख्यमन्त्रिणा हेमन्तसोरेनेन जेएसएससी-सीजीएल् परीक्षायाः निरस्तीकरणस्य निर्णयं कृतमित्यनेन आन्दोलनरतछात्रेषु हर्षोल्लासस्य वातावरणं वर्तते। मुख्यमन्त्रिणः घोषणानन्तरं स्वास्थ्य मन्त्री इरफान अन्सारी तथा मन्त्री दीपिका पाण्डेसिंहः सोमवासरस्य अर्धरात्रेः अनन्तरं सदरचिकित्सालयं प्राप्तवन्तौ तथा च छात्रनेतारं देवेन्द्रमहतोः रसं पाययित्वा तस्य अनशनं समाप्तं कारितवन्तौ।
एषा वार्ता प्रसृता अनन्तरं सामाजिककार्यकर्ता सोनमवाङ्चुकः अर्धरात्रेः अनन्तरं झारखण्डस्य छात्रनेता देवेन्द्रनाथमहतोः सह दृश्यदूरभाषमाध्यमेन संवादं कृत्वा तस्मै अभिनन्दनं दत्तवान्। तेन झारखण्डस्य छात्राणां परिश्रमस्य निष्ठायाश्च प्रशंसा कृता तथा च सर्वेभ्यः सफलछात्रेभ्यः शुभकामनाः प्रदत्ताः।
अस्मिन् प्रसङ्गे झारखण्डसर्वकारस्य मुख्यमन्त्रिणश्च भूमिकायाः अपि प्रशंसा कृता। संवादे अस्मिन् विषये विशेषरूपेण बलं दत्तं यत् सर्वकारः जनाश्च सम्मिलितरूपेण अग्रेऽपि कार्यं कुर्युः तथा च यत्र कुत्रापि न्यूनताः समस्याश्च प्रादुर्भवन्ति, ताः परस्परं सहयोगेन सम्मिलितप्रयत्नेन च दूरीकर्तव्याः।
वाङ्चुकेन छात्राणां उपलब्धिः सकारात्मकं पदक्षेपं प्रतिपादिता तथा च ते अग्रेऽपि एवं परिश्रमेण ऐक्येन च प्रगतिं कुर्वन्तु इति शुभकामना प्रदत्ता।
---------------
Hindusthan Samachar / Dheeraj Maithani