Enter your Email Address to subscribe to our newsletters

रांची, 18 अगस्तमासः (हि.स.)।
दिल्लीविधानसभाध्यक्षः विजेन्द्रगुप्तः तस्य पत्नी डा शोभाविजेन्द्रा च मङ्गलवासरे झारखण्डविधानसभाध्यक्षेन रवीन्द्रनाथमहतो इत्यनेन सह तस्य आवासे औपचारिकं साक्षात्कारं कृतवन्तौ।
अस्मिन् अवसरे अध्यक्षः रवीन्द्रनाथमहतो दिल्लीविधानसभाध्यक्षाय तस्यै पत्नी डा शोभाविजेन्द्रायै च भगवान् बिरसामुण्डायाः स्मृतिचिह्नं स्वकीयं सदनसंवादम् इति पुस्तकं च उपहाररूपेण प्रदत्तवान्। अस्मिन् अवसरे अध्यक्षेण उक्तं यत् एषः साक्षात्कारः केवलम् औपचारिकता नास्ति, अपितु अस्माकं लोकतान्त्रिकमूल्यानां संसदीयपरम्पराणां पारस्परिकसौहार्दस्य च सुन्दराभिव्यक्तिः अस्ति।
उल्लेखनीयं यत् दिल्लीविधानसभाध्यक्षः पत्न्या सह विगतद्वाभ्यां दिवसाभ्यां राञ्चीनगरे प्रवासे आसीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani