बाङ्ग्लादेशेन सह सकारात्मकं, रचनात्मकं च सम्बन्धं वाञ्छति भारतम्
नवदिल्ली, १८ अगस्तमासः (हि.स.)। भारतं मङ्गलवासरे बाङ्ग्लादेशेन सह सम्बन्धानां विषये स्वस्य स्थितिं स्पष्टं कुर्वन् अवदत् यत् सः उभयोः देशयोः मध्ये सकारात्मकं, रचनात्मकं तथा भविष्याभिमुखं सम्बन्धं वाञ्छति। विदेशमन्त्रालयेन उक्तं यत् द्विपक्षीय-सम्बन
MEA Spokesperson Randhir Jaiswal


नवदिल्ली, १८ अगस्तमासः (हि.स.)। भारतं मङ्गलवासरे बाङ्ग्लादेशेन सह सम्बन्धानां विषये स्वस्य स्थितिं स्पष्टं कुर्वन् अवदत् यत् सः उभयोः देशयोः मध्ये सकारात्मकं, रचनात्मकं तथा भविष्याभिमुखं सम्बन्धं वाञ्छति। विदेशमन्त्रालयेन उक्तं यत् द्विपक्षीय-सम्बन्धाः परस्परहितस्य तथा पारस्परिकतायाः आधारं स्वीकृत्य अग्रे वर्धनीयाः। भारतं सममेव अवदत् यत् बाङ्ग्लादेशात् प्राप्तानां प्रत्यर्पण-सम्बद्धानाम् अनुरोधानां स्थापितानां वैधानिकप्रक्रियाणाम् अन्तर्गतं परीक्षणं क्रियते।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः बाङ्ग्लादेशस्य विदेश-मन्त्रालयस्य साम्प्रतिकप्रतिक्रियायाः विषये टिप्पणीं कुर्वन् अवदत् यत् पूर्वप्रधानमन्त्रिणः शेखहसीनायाः नव-दिल्ली इत्यत्र आयोजितां वार्ताहर-सम्मेलनं प्रति भारतस्य दृष्टिकोणः पूर्वमेव स्पष्टः कृतः अस्ति, अतः तस्य पुनरुक्तेः आवश्यकता नास्ति। बाङ्ग्लादेशेन हसीनायाः माध्यमोपस्थितिः द्विपक्षीय-सम्बन्धानां कृते हानिकारिका इति कथयित्वा आपत्तिः प्रकटिता आसीत्। जायसवालः अवदत् यत् प्रत्यर्पण-सम्बद्धानाम् अनुरोधानां भारतस्य स्थापितानां प्रक्रियाणाम् अन्तर्गतं परीक्षणं क्रियते।

ऊर्जासहयोगस्य सम्बन्धे पृष्टे प्रश्नस्य उत्तरे जायसवालः अवदत् यत् भारतस्य बाङ्ग्लादेशस्य च मध्ये ऊर्जाक्षेत्रे सहयोगः निरन्तरं प्रवर्तते। बाङ्ग्लादेशस्य पक्षतः अतिरिक्तऊर्जाप्रदायस्य यः अनुरोधः प्राप्तः, तस्य भारतं समीक्षां करोति। अस्मिन् अनुरोधे निर्णयं कुर्वन् भारतस्य स्वकीयाः ऊर्जा-आवश्यकताः, परिष्करणक्षमता तथा देशे उपलब्धस्य डीजलतैलस्य मात्रा इत्येतानि सर्वाणि विषयाणि ध्यानं नीयन्ते।बाङ्ग्लादेशः सम्प्रति विद्युत्-इन्धनयोः न्यूनतायाः सम्मुखीभवति। प्राकृतिकवायोः न्यूनतायाः तथा एलएनजी-टर्मिनल-सम्बद्धानां समस्यानां कारणेन तत्र विद्युत्प्रदायः प्रभावितः अभवत्। एतादृश्यां परिस्थितौ ढाका-प्रशासनेन भारतात् अतिरिक्तडीजलतैलस्य याचनां कृता अस्ति। उभयोः देशयोः मध्ये भारत-बाङ्ग्लादेशमैत्री-पाइपलाइनमार्गेण पेट्रोलियम-उत्पादानां प्रदायः पूर्वमेव प्रचलति।

Hindusthan Samachar / Divya Ranjan