Enter your Email Address to subscribe to our newsletters

भोपालः, १८ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् राज्यसर्वकारः प्रत्येकं कृषकस्य कृषिक्षेत्रं पर्याप्तं जलं प्रापयितुं प्रतिबद्धः अस्ति, येन सस्येभ्यः सिञ्चनाय पर्याप्तं जलं प्राप्यते। कृषककल्याणवर्षे कृषकाणां समृद्धये सर्वे आवश्यकाः उपायाः कृताः सन्ति। एषः क्रमः निरन्तरं प्रवर्तिष्यते। कृषकहिताय सर्वे आवश्यकाः उपायाः क्रियन्ते।
मुख्यमन्त्री डॉ. यादवः मङ्गलवासरे भोपालनगरे मुख्यमन्त्रिनिवासस्य संवाद-कक्षे खण्डवाजनपदस्य कृषक-प्रतिनिधिभिः सह चर्चां कुर्वन् आसीत्। अस्मिन् अवसरे जनजातीय-कार्यमन्त्री विजयशाहः उपस्थितः आसीत्।
मुख्यमन्त्री अवदत् यत् कृषकेभ्यः गोधूमस्य समर्थनमूल्येन क्रयणस्य तस्य मूल्यस्य च प्रदानेन सह अन्येषां सस्यानाम् उपार्जनस्य धनराशिं समये प्रदातुं, खाद्य-प्रसंस्करणकार्येण कृषकान् लाभान्वितुं, सिञ्चनाय पर्याप्तां विद्युदापूर्तिं कर्तुं तथा कुक्कुटपालनेन, पशुपालनेन दुग्ध-व्यवसायविकासक्रियाकलापैश्च कृषकान् संयोजयितुं आवश्यकाः उपायाः कृताः सन्ति।
सः अवदत् यत् खण्डवाजनपदे नर्मदायाः परिक्रमामार्गस्य विकासाय आवश्यकाः व्यवस्थाः कृताः सन्ति। दादाधूनी इत्यस्य पावनस्थले अन्येषु श्रद्धास्थलेषु च आवश्यकसुविधानां विकासः क्रियते।खण्डवाक्षेत्रस्य कृषकैः कृषककल्याण-सम्बद्धानां निर्णयानां कृते मुख्यमन्त्री डॉ. यादवं प्रति कृतज्ञता व्यक्ता।
Hindusthan Samachar / Divya Ranjan