Enter your Email Address to subscribe to our newsletters

- संत शिरोमणेःरविदास जेः 650तमायाः जयंत्याः अवसरे भविष्यति प्रदेश स्तरीयः कार्यक्रमः
भोपालम्, 18 अगस्तमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य मङ्गलवासरे सन्तशिरोमणिगुरुरविदासमहाराजस्य ६५०तम्याः जयन्त्याः अवसरे पूर्वाह्णे ११ वादने भोपालनगरस्य रवीन्द्रभवने आयोजिते राज्यस्तरीये कार्यक्रमे प्रदेशव्यापिसमरसमतासङ्कल्पाभियानस्य कलशयात्रायाश्च शुभारम्भं करिष्यति। अस्मिन् अवसरे प्रदेशस्य विभिन्नेभ्यः जनपदेभ्यः पावनकलशाः प्रेषयिष्यन्ते।
जनसम्पर्काधिकारी पङ्कजमित्तलेन उक्तं यत् सन्तशिरोमणिगुरुरविदासस्य ६५०तम्याः जयन्त्याः अवसरे प्रदेशे तस्य जीवनदर्शनस्य तथा समतायाः, भक्तेः, सेवायाः, सामाजिकन्यायस्य मानवतायाश्च सन्देशं जनजनं प्रति प्रसारयितुम् उद्दिश्य प्रदेशव्यापिसमरसमतासङ्कल्पाभियानस्य यात्रायाश्च आयोजनं क्रियते। अभियानस्य अन्तर्गतं क्रमशः प्रदेशस्तरे, जनपदस्तरे ग्रामस्तरे च विविधाः सामाजिकाः सांस्कृतिकाः अन्याश्च गतिविधयः आयोजयिष्यन्ते।
प्रत्येकस्मिन् जनपदे भविष्यति कलशरथयात्रा
तेन उक्तं यत् अभियानस्य अन्तर्गतं सर्वेषु जनपदमुख्यालयेषु २० अगस्त् २०२६ दिनाङ्के कलशवन्दनस्य सम्मानसमारोहस्य च आयोजनं भविष्यति। ततः पावनकलशः कलशरथेन स्थानीयगुरुरविदासमन्दिरं ग्रामस्तरं च प्रति नीयते। प्रदेशस्य प्रत्येकस्मिन् जनपदे २० अगस्त् आरभ्य १० सितम्बर् २०२६ पर्यन्तं निर्धारितमार्गे कलशरथयात्रायाः आयोजनं भविष्यति।
स्थानीयस्तरे भविष्यन्ति धार्मिकाः सांस्कृतिकाश्च कार्यक्रमाः
जनसम्पर्काधिकारिणः अनुसारम् अभियानस्य अवधौ जनपदस्तरे ग्रामस्तरे च तथा चिह्नितेषु स्थानीयमन्दिरेषु विविधस्वरूपाणाम् आयोजनं भविष्यति। तेषु सामूहिकारती, गुरुवाणीपाठः, भजनसन्ध्या, समरसतासङ्कल्पः अन्ये च स्थानीयाः धार्मिकाः सांस्कृतिकाश्च कार्यक्रमाः अन्तर्भवन्ति। एतेषु स्थानीयसन्तानां, गुरूणां, समाजप्रतिनिधीनां नागरिकानां च सहभागिता सुनिश्चितं करिष्यते।
५ अक्तूबरतः ५ नवम्बरपर्यन्तं भविष्यति समरसतायात्रा
श्रीगुरुरविदासमहाराजसमरसतायात्रायाः आयोजनं ५ अक्तूबरतः ५ नवम्बर् २०२६ पर्यन्तं भविष्यति। डेरासच्चखण्डबल्लनतः जालन्धरात् प्रारभ्यमाणा एषा यात्रा मध्यप्रदेशराज्यस्य विभिन्नस्थानानि गत्वा गमिष्यति। यात्रायाः प्रमुखेषु विश्रामस्थलेषु यात्रायाः भव्यस्वागतं, समरसतासङ्कल्पः, समरसतागोष्ठी तथा समतायाः, सेवायाः, सामाजिकन्यायस्य बेगमपुरानाम्ना आदर्शसमाजस्य च सन्देशकेन्द्रिताः कार्यक्रमाः आयोजयिष्यन्ते।
सन्तसम्पर्ककार्यक्रमः
प्रदेशस्तरे १८ अगस्ततः ३१ अगस्त् २०२६ पर्यन्तं सन्तसम्पर्ककार्यक्रमस्य आयोजनं भविष्यति। अस्य अन्तर्गतं सन्तान् गुरूंश्च अभियानस्य उद्देश्यानां गतिविधीनां च विषये अवगतं कारयित्वा विभिन्नेषु सामाजिकसमरसताकार्यक्रमेषु तेषां सहभागितायै आमन्त्रणं प्रदास्यते।
कार्यक्रमस्य नोडलः समन्वयकर्ता च विभागः अनुसूचितजातिकल्याणविभागः भविष्यति तथा जनजातीयजनपदेषु जनजातीयकार्यविभागः नोडलविभागत्वेन कार्यं करिष्यति। जनपदमुख्यालयेषु नगरीयक्षेत्रेषु च नगरीयविकासस्य आवासस्य च विभागेन तथा ग्रामीणक्षेत्रेषु पञ्चायतग्रामीणविकासविभागेन योजना आर्थिकसाङ्ख्यिकीविभागेन च आवश्यकाः व्यवस्थाः सुनिश्चिताः करिष्यन्ते।
योजना आर्थिकसाङ्ख्यिकीविभागेन जनअभियानपरिषदा च अभियानस्य विषये जनजागरूकतां जनसहभागितां च वर्धयितुं आवश्यकाः गतिविधयः सञ्चालयिष्यन्ते। सांस्कृतिककार्यक्रमान्तर्गतं संस्कृतिविभागेन अभियानसम्बद्धानां सांस्कृतिकगतिविधीनां कार्यक्रमाणां च आयोजनस्य समन्वयस्य संयोजनस्य च कार्यवाही क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani