कृषकाणां कल्याणाय कृषि-पशुपालन-उद्यानिकीक्षेत्राणां संवर्धनं करोति सर्वकारः — मुख्यमन्त्री डॉ. यादवः
- मुख्यमन्त्रिणा गुनानगरे आयोजितः बलरामकृषिमहोत्सवः आभासीयमाध्यमेन सम्बोधितः भोपालम्, १८ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् कृषककल्याणवर्षे प्रदेशस्य सर्वकारः कृषकाणाम् आर्थिकसशक्ती-करणाय कृषिकार्येण सह पशुपालनस्
मुख्यमंत्री ने गुना में आयोजित बलराम कृषि महोत्सव को वर्चुअली संबोधित किया


- मुख्यमन्त्रिणा गुनानगरे आयोजितः बलरामकृषिमहोत्सवः आभासीयमाध्यमेन सम्बोधितः

भोपालम्, १८ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् कृषककल्याणवर्षे प्रदेशस्य सर्वकारः कृषकाणाम् आर्थिकसशक्ती-करणाय कृषिकार्येण सह पशुपालनस्य उद्यानिकीक्षेत्रस्य च संवर्धनं करोति।

मुख्यमन्त्री डॉ. यादवः मङ्गलवासरे मुख्यमन्त्रीनिवासात् गुनाजनपदस्य कृष्युपज-मण्डीप्राङ्गणे आयोजितं बलराम-कृषिमहोत्सवं आभासीय-माध्यमेन सम्बोधितवान्। सः अवदत् यत् गुनाजनपदस्य धनिया इत्यस्य पाटलस्य च उत्पादनक्षेत्रे विशेषा ख्यातिः अस्ति। कृषकान् उद्यानिकीक्षेत्रेण सह संयोज्य तेषाम् आयवर्धनाय प्रयत्नाः क्रियन्ते। गुनाजनपदस्य कुम्भराजस्य धनिया इत्यस्मै शीघ्रमेव जी.आई. मानाङ्कः प्राप्स्यते। प्रदेशे उद्यानिकीक्षेत्रस्य विस्तारं विंशतिप्रतिशतं वर्धयितुं लक्ष्यं निर्धारितम् अस्ति।

मुख्यमन्त्री अवदत् यत् पशुपालनक्षेत्रेऽपि प्रदेशस्य कृषकाः लाभान्विताः क्रियन्ते। परिवर्तमानकालस्य आवश्यकतानुसारं पशुवंशसुधारादिकार्येषु विशेषं ध्यानं दीयते। प्रदेशे दुग्धोत्पादनं द्वादशप्रतिशततः विंशतिप्रतिशतपर्यन्तं नेतुं लक्ष्यं निर्धारितम् अस्ति। सः अवदत् यत् प्रदेशे सिञ्चन-सुविधानां तीव्रं विस्तारः अभवत्। कृषकेभ्यः दिवाकाले विद्युदापूर्तेः लाभः प्राप्यते, येन कृषिकार्यं अधिकं सुकरं भवितुं साहाय्यं प्राप्तम् अस्ति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् युवानः अपि कृषिकार्येण, पशुपालनेन उद्यानिकी-क्रियाकलापैश्च सह संयोज्यन्ते। उन्नतगोपालनस्य दुग्धव्यवसाय-विकासस्य च कार्यैः बहुसंख्यकाः युवानः सम्बद्धाः भवन्ति। सः कृषकेभ्यः सामाजिककुरीतीनां परित्यागं, विवाहादिषु प्रसङ्गेषु अनावश्यकव्ययस्य न्यूनीकरणं, कृषिभूमेः अविक्रयं तथा बालकानां शिक्षायां विशेषध्यानं च कर्तुम् आह्वानं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री डॉ. यादवः जनप्रतिनिधिभिः कृषकैश्च सह संवादमपि कृतवान्।

विधायिका प्रियङ्का पेञ्ची अवदत् यत् अद्यतनः दिवसः अतीव शुभः अस्ति। शासनस्य योजनानां लाभः एकैकं जनाय प्राप्यते। भारतसर्वकारः राज्यसर्वकारश्च निरन्तरम् एतादृश्यः योजनाः सञ्चालयतः, येन जनानां जीवनं सुकरं भवति तथा योजनानां लाभः गृहं गृहं प्राप्यते।

विधायकः पन्नालालशाक्यः प्राकृतिक-कृषेः संवर्धनस्य आवश्यकतां प्रतिपाद्य अवदत् यत् प्राकृतिककृष्यै कृषकान् प्रेरयितुं प्रशंसनीयः प्रयत्नः अस्ति। सः कृषकेभ्यः प्राकृतिककृषिम् अङ्गीकर्तुम् आह्वानं कृत्वा अवदत् यत् यस्याः भूमेः अन्नं प्राप्यते, तस्याः भूमिं प्रति सम्मानस्य भावः भवितव्यः। कार्यक्रमे जनपदाधिकारी किशोरकुमारकन्यालः, जनपदपञ्चायतस्य मुख्यकार्य-पालनाधिकारी अभिषेकदुबे इत्यादयः अन्ये जनप्रतिनिधयः अधिकारी-कर्मचारिणश्च उपस्थिताः आसन्।

अतिथिभिः प्रदर्शिनी अवलोकिता

बलरामकृषिमहोत्सवस्य अवधौ विभिन्नविभागैः शासनस्य जनकल्याण-कारीयोजनानां कृषिसम्बद्धानां च क्रियाकलापानां सूचनां प्रदातुं प्रदर्शिनी आयोजिता। अतिथिभिः प्रदर्शिन्याः अवलोकनं कृत्वा अधिकारिभ्यः विभागीययोजनानां विषये सूचनाः प्राप्ताः।

सांस्कृतिकप्रस्तुतिभिः अभवत् मनोरञ्जनम्

कार्यक्रमस्य प्रारम्भे कलाकारैः मनोहारिण्यः सांस्कृतिकप्रस्तुतयः प्रदत्ताः। कृषिविज्ञानकेन्द्रस्य वैज्ञानिकैः कृषकेभ्यः कृषेः उन्नतप्रौद्योगिकीनां, प्राकृतिककृषेः अन्येषां च कृष्युपयोगिविषयाणां महत्त्वपूर्णाः सूचनाः प्रदत्ताः।

उपलब्धीनां कृते कृषकाः सम्मानिताः

कार्यक्रमे कृषकपरिवारस्य प्रतिभाशालिनः छात्राः छात्राश्च तथा जैविककृषिं उन्नतप्रौद्योगिक्या कृषिं च कुर्वन्तः कृषकाः अपि सम्मानिताः। कार्यक्रमे स्वतन्त्रतादिवसस्य अवसरे सम्मानिताः अधिकारी-कर्मचारिणः अपि सम्मानिताः।

Hindusthan Samachar / Divya Ranjan