गुनायां बलराम कृषि महोत्सवोऽद्य, मुख्यमंत्री डॉ. यादवः कृषकैस्सह करिष्यति वर्चुअलीमाध्यमेन संवादम्
गुना, 18 अगस्तमासः (हि.स.)। मध्यप्रदेशे अस्मिन् वर्षे आचर्यमाणे “कृषककल्याणवर्षे” सर्वेषु जनपदमुख्यालयेषु क्रमबद्धरूपेण बलरामकृषिमहोत्सवस्य आयोजनं क्रियते। अस्यैव क्रमस्य अन्तर्गतं गुना जनपदमुख्यालये अद्य मङ्गलवासरे मध्याह्नद्वादशवादनतः अपराह्णत्
सीएम मोहन यादव (फाइल फोटो)


गुना, 18 अगस्तमासः (हि.स.)।

मध्यप्रदेशे अस्मिन् वर्षे आचर्यमाणे “कृषककल्याणवर्षे” सर्वेषु जनपदमुख्यालयेषु क्रमबद्धरूपेण बलरामकृषिमहोत्सवस्य आयोजनं क्रियते। अस्यैव क्रमस्य अन्तर्गतं गुना जनपदमुख्यालये अद्य मङ्गलवासरे मध्याह्नद्वादशवादनतः अपराह्णत्रिवादनपर्यन्तं नानाखेडी गुना कृष्युपजमण्ड्यां बलरामकृषिमहोत्सवस्य कार्यक्रमस्य आयोजनं कृतम् अस्ति।

कार्यक्रमे मुख्यमन्त्री डॉ. मोहनयादवः आभासीयमाध्यमेन जनपदस्य कृषकान् सम्बोधयिष्यति। मुख्यमन्त्री डॉ. यादवः जनपदस्य उन्नतिशीलैः कृषकैः सह संवादमपि करिष्यति। कार्यक्रमस्य अवधौ कृषिक्षेत्रस्य नूतनानां आयामानां विषये परिचितुं अवसरः अपि सुलभः भविष्यति।

कार्यक्रमे कृषेः नूतनप्रविधीनां कृषिकार्येभ्यः अधिकलाभप्राप्तेः उपायानां च विषये वैज्ञानिकैः कृषकेभ्यः सूचना प्रदास्यते। तदनन्तरं कृषिसम्बद्धैः विभागैः विभागीययोजनानां कार्यक्रमाणां च विषये स्थापिताः केन्द्रप्रदर्शन्यः अपि अवलोकनीयाः भविष्यन्ति।

कार्यक्रमे भोपालस्य पथकेन सांस्कृतिककार्यक्रमाः प्रदर्शयिष्यन्ते। कृषिविभागेन कृषकेभ्यः आह्वानं कृतं यत् निर्धारिते दिनाङ्के निर्धारिते समये च अधिकाधिकसंख्यया उपस्थिताः भूत्वा कार्यक्रमे प्रदत्तानां सूचनानां लाभं प्राप्नुयुः।

---------------

Hindusthan Samachar / Dheeraj Maithani