खनिजस्य अवैध- उत्खननं, परिवहने एवं भंडारणे दृढकार्यवाही : संभागायुक्त शर्मा
- खनिज विभागस्य संभागीय समीक्षोपवेशनम् भोपालम्, 17 अगस्तमासः (हि.स.)।भोपालसम्भागायुक्तः कर्मवीरशर्मा निर्देशान् दत्तवान् यत् सम्भागस्य सर्वेषु जनपदेषु खनिजानाम् अवैधोत्खननस्य, परिवहनस्य भण्डारणस्य च विषये कठोरकार्यवाही क्रियताम्। एतादृशेषु प्रकरणे
खनिज विभाग की संभागीय समीक्षा बैठक


- खनिज विभागस्य संभागीय समीक्षोपवेशनम्

भोपालम्, 17 अगस्तमासः (हि.स.)।भोपालसम्भागायुक्तः कर्मवीरशर्मा निर्देशान् दत्तवान् यत् सम्भागस्य सर्वेषु जनपदेषु खनिजानाम् अवैधोत्खननस्य, परिवहनस्य भण्डारणस्य च विषये कठोरकार्यवाही क्रियताम्। एतादृशेषु प्रकरणेषु नियमानुसारं दण्डः आरोपणीयः, सामग्री जब्तव्या तथा च कार्ये प्रयुक्तानां वाहनादीनां राजसातीकरणस्य कार्यवाही अपि करणीया। सर्वेषु जनपदेषु स्थापिताः परीक्षणकेन्द्राः सक्रियाः भवन्तु तथा निरन्तरं कार्यवाही क्रियताम्। कार्ये कस्यापि प्रकारस्य प्रमादः न सहिष्यते।

सम्भागायुक्तः शर्मा सोमवासरे आयुक्तकार्यालयस्य सभागारे खनिजविभागस्य सम्भागीयसमीक्षां कुर्वन् आसीत्। उपवेशने उपायुक्ता राजस्वभारतीदेवीमिश्रा, खनिजाधिकारी मेहताबसिंहरावतः सहितं सर्वेषां जनपदानां खनिजाधिकारिणः उपस्थिताः आसन्।

समीक्षोपवेशने सूचितं यत् सम्भागस्य सर्वेषु जनपदेषु अवैधखननस्य विषये निरन्तरं कार्यवाही क्रियते। अप्रैलमासात् २०२६ आरभ्य अद्यावधि राजगढजनपदे ५७, भोपालजनपदे ४८, रायसेनजनपदे ७७, विदिशाजनपदे ६७ तथा सीहोरजनपदे १११ अवैधखननस्य, परिवहनस्य भण्डारणस्य च प्रकरणानि पञ्जीकृतानि सन्ति। एतेषां प्रकरणानाम् अन्तर्गतं ३८४.१२ लक्षरूप्यकाणां अर्थदण्डः अधिरोपितः अस्ति।

सम्भागायुक्तेन शर्मणा सर्वेषु जनपदेषु स्वीकृतानां खनिजपट्टानां विषये सूचना गृहीता तथा च उत्खननस्य स्वीकृतीनां समये एव नवीकरणं कारयितुं निर्देशाः दत्ताः। अवैधखननस्य निवारणाय कृत्रिमबुद्धिमत्ताआधारितैः परीक्षणकेन्द्रैः जाँच तथा परिवहनपत्राणां जाँच कठोरतया कर्तुं निर्देशाः दत्ताः। तेन सह सर्वेषु जनपदेषु भण्डारणस्थलेषु विद्यमानस्य खनिजसञ्चितस्य कठोरतया परीक्षणं कर्तुं निर्देशितम्। अवैधपरिवहनस्य प्रकरणेषु नीलामीद्वारा अधिकाधिकं राजस्वं संग्रहीतुं निर्देशाः अपि प्रदत्ताः।

सम्भागायुक्तः शर्मा उपवेशने सर्वान् खनिजाधिकारिणः निर्देशितवान् यत् कस्मिन्नपि जनपदे नदीनां मध्ये अवैधोत्खननं न भवेत्। एतादृशेषु प्रकरणेषु कठोरतमा कार्यवाही कृत्वा प्रयुक्तानि वाहनानि राजसात् करणीयानि।

सम्भागायुक्तेन निर्देशितं यत् सर्वेषु जनपदेषु खनिजराजस्वस्य वसूली योजनापूर्वकं रणनीतिं निर्माय क्रियेताम्। सर्वेषु जनपदेषु सिकतायाः, प्रस्तरस्य अन्येषां च खनिजपट्टानां अनुज्ञप्तीनां च नवीकरणस्य भौतिकसत्यापनमपि करणीयम्। तेन सह मुख्यमन्त्रिणः जनविश्वासाभियानस्य २०२६ अन्तर्गतं खनिजविभागस्य अधिकारिभिः स्वस्वक्षेत्रेषु निरीक्षणं करणीयम्। विभागे लम्बितानां मुख्यमन्त्री-सहायता-दूरभाषसम्बद्धानां प्रकरणानां समये एव निराकरणं कर्तुं निर्देशाः दत्ताः।

---------------

Hindusthan Samachar / Dheeraj Maithani