श्रेया घोषालस्य सुमधुरध्वनौ 'मिर्जापुर: द मूवी' इत्यस्य नूतनं गीतं विमुक्तम्
अलीफजलस्य पङ्कजत्रिपाठिनश्च बहुप्रतीक्षितायाः चलचित्रस्य ‘मिर्जापुरः द मूवी’ इत्यस्य विषये दर्शकानाम् उत्साहः निरन्तरं वर्धमानः अस्ति। पूर्वं प्रदर्शितस्य चलचित्रस्य पूर्वावलोकनस्य अनन्तरं निर्मातृभिः अधुना चलचित्रस्य प्रथमं प्रणयरसप्रधानं गीतं ‘वा
अली फजल, श्रिया पिलगांवकर - फोटो सोर्स एक्स


अलीफजलस्य पङ्कजत्रिपाठिनश्च बहुप्रतीक्षितायाः चलचित्रस्य ‘मिर्जापुरः द मूवी’ इत्यस्य विषये दर्शकानाम् उत्साहः निरन्तरं वर्धमानः अस्ति। पूर्वं प्रदर्शितस्य चलचित्रस्य पूर्वावलोकनस्य अनन्तरं निर्मातृभिः अधुना चलचित्रस्य प्रथमं प्रणयरसप्रधानं गीतं ‘वारूं फॉरएवर’ इति प्रकाशितम् अस्ति। गीते अलीफजलः जितेन्द्रकुमारः श्वेतात्रिपाठी श्रियापिलगांवकरश्च दृश्यन्ते। एतत् गीतं फरहान् अख्तरस्य एक्सेल् म्यूजिक् संस्थया प्रकाशितम् अस्ति।

प्रेम्णः सम्बन्धानां च झलकं प्रदर्शयति ‘वारूं फॉरएवर’ इति गीतम् ४ मिनिट् १२ सेकण्ड्-परिमितं दीर्घम् अस्ति। अस्मिन् गीते ‘मिर्जापुरः’ इत्यस्य संसारस्य मध्ये सम्बन्धानां भावनानां च भिन्नः वर्णः द्रष्टुं शक्यते। गीतस्य सङ्गीतं आनन्दभास्करेण संयोजितम् अस्ति, तस्य शब्दाश्च गिन्नीदीवानेन रचिताः सन्ति। श्रेयाघोषालेन रोमी इत्यनेन च गीतस्य स्वरप्रदानं कृतम् अस्ति। हृषिगिरिधरेण तन्वीजोश्यया च अस्य सङ्गीतनिर्माणस्य दायित्वं निर्व्यूढम् अस्ति।

एतत् ‘मिर्जापुरः द मूवी’ इत्यस्य एक्सेल् म्यूजिक् संस्थया प्रकाशितं द्वितीयं गीतम् अस्ति। अस्मात् पूर्वं चलचित्रस्य ‘२ नम्बरि’ इति गीतं प्रकाशितम् आसीत्। नूतनस्य प्रणयरसप्रधानस्य गीतस्य माध्यमेन निर्मातृभिः चलचित्रस्य कथायां विद्यमानानां सम्बन्धानां भावनात्मकपक्षाणां च झलकं प्रस्तुतं कृतम् अस्ति।

चतुर्थे सेप्टेम्बर् दिने चलचित्रगृहेषु प्रदर्श्यमानस्य ‘मिर्जापुरः द मूवी’ इत्यस्य पूर्वावलोकनं हाल एव प्रकाशितम् आसीत्, यस्य दर्शकैः उत्तमः प्रतिसादः प्रदत्तः। चलचित्रे अलीफजलस्य पङ्कजत्रिपाठिनश्च अतिरिक्तं दिव्येन्दुः रविकिशनः रसिकादुग्गलः श्वेतात्रिपाठी अभिषेकबैनर्जी श्रियापिलगांवकरः जितेन्द्रकुमारश्च प्रमुखभूमिकासु दृश्यन्ते। एक्सेल् एण्टरटेन्मेण्ट् इत्यस्य ध्वजान्तर्गतं निर्मितमिदं चलचित्रं २०२६ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य चतुर्थे दिने चलचित्रगृहेषु प्रदर्शितं भविष्यति। ‘मिर्जापुरः’ इत्यस्य लोकप्रियं संसारं बृहत्तरे पटले द्रष्टुं प्रशंसकाः दीर्घकालात् प्रतीक्षां कुर्वन्ति।

Hindusthan Samachar / Dheeraj Maithani