जे.पी. नड्डा इत्यस्य एन्जियोप्लास्टी कृता, स्वास्थ्यावस्था स्थिरा
नवदिल्ली, १८ अगस्तमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रिण: जगत्प्रकाशनड्डाया: सोमवासरे एन्जियो-प्लास्टी-चिकित्सायाः अनन्तरं स्वास्थ्यावस्था स्थिरा वर्तते। अखिलभारतीय-आयुर्विज्ञानसंस्थानेन मङ्गलवासरे प्रकाशितस्य चिकित्सा-पत्रकस्य अनुसा
केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा


नवदिल्ली, १८ अगस्तमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रिण: जगत्प्रकाशनड्डाया: सोमवासरे एन्जियो-प्लास्टी-चिकित्सायाः अनन्तरं स्वास्थ्यावस्था स्थिरा वर्तते।

अखिलभारतीय-आयुर्विज्ञानसंस्थानेन मङ्गलवासरे प्रकाशितस्य चिकित्सा-पत्रकस्य अनुसारं सोमवासरे, अगस्त-मासस्य १७ दिनाङ्के एन्जियोप्लास्टी-चिकित्सायाः अनन्तरं जे.पी. नड्डा एम्स-संस्थानस्य हृदय-रोगविभागे चिकित्स-कीयनिरीक्षणे स्थापितः अस्ति। चिकित्सकानां दलं तस्य स्वास्थ्यस्य निरन्तरं निरीक्षणं कुर्वत् अस्ति।

उल्लेखनीयं यत् केन्द्रीयस्वास्थ्यमन्त्री जे.पी. नड्डा अस्वस्थतायाः वक्षसि असहजतायाश्च सूचनया अगस्तमासस्य १३ दिनाङ्कस्य सायंकाले एम्स-संस्थाने प्रवेशितः आसीत्। तस्य कोरोनरी-एन्जियोग्राफी कृता तथा सम्प्रति सः हृदय-रोगविभागस्य चिकित्सकानां निरीक्षणे अस्ति। तस्य स्वास्थ्यावस्था स्थिरा वर्तते।

Hindusthan Samachar / Divya Ranjan