Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओमबिरला इत्यादयः अनेके मन्त्रिणः च मङ्गलवासरे वित्तमन्त्रिण्यै निर्मलासीता-रमणायै तस्याः जन्मदिवसस्य अवसरं प्रति शुभकामनाः प्रदत्तवन्तः।
मोदिना ‘एक्स’ इत्यत्र लिखितम्, “वित्तमन्त्रिण्यै निर्मलासीतारमणायै जन्मदिवसस्य हार्दिकाः शुभकामनाः! सुधाराणाम् आर्थिकविकासस्य च विषये तस्याः बलं दृढं स्वावलम्बिनं च भारतं निर्मातुं अस्माकं प्रयासान् गतिं प्रददाति। ईश्वरः तस्यै दीर्घां स्वस्थां च आयुः प्रददातु।”
बिरला अवदत् यत् ईश्वरः निर्मला-सीतारमणायै उत्तमस्वास्थ्यं, सुखं दीर्घायुष्यं च प्रददातु।
केन्द्रीयसहकारितामन्त्री गृहमन्त्री च अमितशाहः अवदत् यत् देशस्य प्रगतिं प्रति भवत्याः अटूटा प्रतिबद्धता आर्थिक-विकासस्य माध्यमेन राष्ट्रनिर्माणस्य प्रधानमन्त्रीमोदिनः दृष्टिकोणं साकारयितुं गतिं वर्धयति। ईश्वरः भवत्यै सर्वदा उत्तमस्वास्थ्यं सफलतां च प्रददातु।
रक्षामन्त्री राजनाथसिंहः अवदत् यत् देशं प्रति तस्याः समर्पणं निष्ठा च भारतस्य अर्थव्यवस्थां सुदृढां कर्तुं तथा देशस्य विकासयात्रां अग्रे नेतुं महत्त्वपूर्णं योगदानं दत्तवती। समावेशीविकासस्य प्रोत्साहने नागरिकाणां सशक्तीकरणे च तस्याः प्रयासाः वस्तुतः प्रशंसनीयाः सन्ति।
विदेशमन्त्री डॉ. एस. जयशङ्करः तस्याः उत्तमस्वास्थ्यस्य, सुखस्य, जनसेवायां निरन्तरसफलतायाश्च कामनां कृतवान्।
केन्द्रीयसामाजिकन्यायाधिकारितामन्त्री डॉ. वीरेन्द्रकुमारः अवदत् यत् देशस्य राजनीतिक्षेत्रे नारीशक्तेः सशक्तं परिचयं धारयन्त्यै कुशलायै अर्थशास्त्रज्ञायै निर्मलासीतारमणायै अनेका: मङ्गलमय-शुभकामनाः। आदिशक्तिं मातरं जगज्जननीं दुर्गां प्रति प्रार्थयामः यत् सा भवत्याः स्वस्थं सुखदं दीर्घं यशस्वी च जीवनं प्रददातु।
Hindusthan Samachar / Divya Ranjan