Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 अगस्तमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः पूर्ववत् एकं प्रसिद्धं संस्कृतसुभाषितं माध्यमीकृत्य उक्तवान् यत् सर्वैः सदैव आत्मसम्मानेन स्वाभिमानेन च जीवितव्यम्। सच्चं पुरुषार्थं पराक्रमश्च अस्मिन्नेव निहितौ स्त इति तेन उक्तम्। प्रधानमन्त्री उक्तवान् यत् मनुष्येण कदापि स्वसिद्धान्तैः सह सम्झौता न कर्तव्या।
“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्। अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥” इति प्रसिद्धं संस्कृतसुभाषितं महाभारतस्य उद्योगपर्वतः उद्धृतम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य स्वकीय-एक्स-हस्तेनेतत् सुभाषितं प्रकाशितवान्।
अस्य तात्पर्यम् अस्ति यत् मनुष्येण सदैव आत्मसम्मानेन साहसेन स्वाभिमानेन च जीवनं यापनीयम्। सच्चं पुरुषार्थं पराक्रमश्च अस्मिन्नेव निहितौ यत् मनुष्यः कस्यामपि परिस्थितौ स्वसिद्धान्तैः आदर्शैः मूल्यैश्च सह सहमतिं न कुर्यात्, अपितु सत्येन धैर्येण आत्मगौरवेण च स्वस्य आदर्शेषु दृढतया स्थित्वा जीवनं यापयेत्।
---------------
Hindusthan Samachar / Dheeraj Maithani