Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ अगस्तमासः (हि.स.)। विकसितभारतस्य निर्माणाय प्रधानमन्त्रिणा नरेन्द्रमोदिना रक्तदुर्गात् घोषिताः ‘शक्तेः सप्तधाराः’ अधुना धरातले अवतारयितुं सज्जता प्रारब्धा अस्ति। केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः मङ्गलवासरे अवदत् यत् कृषिः खाद्यप्रसंस्करणं च अस्याः सप्तधारायाः प्रमुखं बलं भविष्यतः। तस्य मुख्यं बलं गुणवत्तापूर्णस्य निर्यातयोग्यस्य च उत्पादनस्य विषये आसीत्, येन वैश्विकविपण्ये भारतीयकृषकस्य प्रभावः सुदृढः भवेत्।
केन्द्रीयमन्त्री शिवराजसिंहचौहानः ‘शक्तेः सप्तधाराः’ धरातले अवतारयितुं कृषिकृषक-कल्याणमन्त्रालयस्य ग्रामीणविकासमन्त्रालयस्य च अन्तर्गत-विभागानां सङ्कल्पकार्यक्रमं सम्बोधयन् आसीत्। पूसास्थिते सी. सुब्रह्मण्यम्-सभागारे आयोजिते कार्यक्रमे सः अवदत् यत् अद्यतनकार्यक्रमः केवलं औपचारिकः कार्यक्रमः न, अपितु कृष्या ग्रामीणविकासेन च सम्बद्धस्य सम्पूर्णस्य परिवारस्य सामूहिकसङ्कल्पः अस्ति। अस्मिन् परिवारे कृषकाः, वैज्ञानिकाः, अधिकारिणः, कर्मचारिणः, प्रसंस्करण-कर्तारः, निर्यातकाः, स्वयं सहायता समूहानां महिलाः तथा कृषकउत्पादक-सङ्घटनानि सर्वे समानरूपेण सहभागिनः सन्ति। प्रत्येकं व्यक्तेः उत्तरदायित्वं महत्त्वपूर्णम् अस्ति तथा सर्वैः मिलित्वा प्रधानमन्त्रीमहोदयस्य दृष्टिकोणं सफलं कर्तव्यम्।
शिवराजसिंहचौहानः अवदत् यत् भारतीयकृषेः क्षेत्रात् वैश्विकविपण्यपर्यन्तं संयोजनम् अधुना समयस्य आवश्यकता अस्ति। देशस्य कृषकाणां समीपे मरीचिका, मसाला, फलानि, पुष्पाणि, पारम्परिकाः खाद्यपदार्थाः तथा अनेकविधाः कृष्युपजाः सन्ति। एतेषाम् उत्पादानां गुणवत्तायां सुधारं कृत्वा वैश्विकविपणीनां आवश्यकतानुसारं तान् सज्जीकर्तुं शक्यते। सः अवदत् यत् खाद्यप्रसंस्करणेन, आवेष्टनेन, ब्राण्ड-निर्माणेन तथा निर्यातेन कृषकाणाम् आये महत्त्वपूर्णा वृद्धिः कर्तुं शक्यते। कृषकाः, प्रसंस्करणकर्तारः तथा निर्यातकाः परस्परं सम्बद्धाः सन्ति। अतः एतेषां सर्वेषां एकस्मिन् मञ्चे समानीयनं समन्वितरीत्या कार्यकरणं च आवश्यकम् अस्ति।
केन्द्रीयमन्त्री शिवराजसिंहः अवदत् यत् यदि भारतीयकृष्युत्पादेषु गुणवत्ता, शुद्धता तथा विश्वसनीयता भविष्यति, तर्हि वैश्विकविपणयः तान् स्वीकुर्वन्ति। प्राकृतिककृष्या, जैविककृष्या तथा रसायनमुक्तकृष्या उत्पादितानां पदार्थानां देशे विश्वे च याचना निरन्तरं वर्धते। अस्मिन् दिशि कृषकेभ्यः तकनीकीमार्गदर्शनं, विपणिज्ञानं तथा उत्तमाः प्रसंस्करणसुविधाः उपलब्धाः कारयितव्याः।
केन्द्रीयमन्त्री अवदत् यत् देशे कृष्यर्थं राष्ट्रीयस्तरेन सह प्रत्येकं राज्यस्य जनपदस्य च पृथक् कृषिमार्गचित्रं सज्जीकर्तव्यम्। भारतस्य विभिन्नेषु प्रदेशेषु जलवायुः, मृदा, जलं तथा सस्यानां परिस्थितयः भिन्नाः सन्ति। अतः स्थानीयपरिस्थितीनाम् अनुसारं सस्योत्पादनस्य, प्रसंस्करणस्य तथा विपणनस्य योजनाः निर्मातव्याः। सः अवदत् यत् देशस्य वैश्विकविपण्ये वा कस्य सस्यस्य कियत् याचना अस्ति, तस्य वैज्ञानिकमूल्याङ्कनम् आवश्यकम् अस्ति। तदाधारेण कृषकैः सह संवादं कृत्वा तान् उपयुक्तानां सस्यानां, उत्तमगुणवत्तायाः तथा आधुनिककृषिपद्धतीनां कृते प्रेरयितुं शक्यते।
कृष्यनुसन्धानशिक्षाविभागेन, भारतीय-कृष्यनुसन्धानपरिषदा, कृषिविज्ञानकेन्द्रैः, राज्यसर्वकारैः तथा अन्यैः संस्थाभिः मिलित्वा नवीनप्रौद्योगिकी कृषकेभ्यः प्रापयितव्या। सः अवदत् यत् प्रौद्योगिक्याः, यन्त्रीकरणस्य, कृत्रिम-बुद्धिमत्तायाः, उत्तमबीजानां तथा आधुनिककृषिपद्धतीनां प्रयोगं वर्धयित्वा उत्पादनं उत्पादकता च उभे वर्धयितुं शक्येते।
शिवराजसिंहः अवदत् यत् कृषिक्षेत्रे सर्वकारस्य प्राथमिकता उत्पादनवर्धनं, व्ययन्यूनीकरणं, गुणवत्तासुधारः तथा कृषकेभ्यः उचितमूल्यप्रदानम् अस्ति। कृषकेभ्यः ऋतोः, विपणनस्य तथा उत्पादनस्य सम्बद्धां सम्यक् सूचनां समये एव उपलब्धां कारयितुं आवश्यकम् अस्ति। सः अवदत् यत् प्राकृतिककृषेः, जैविककृषेः, सिञ्चनस्य, जलसंरक्षणस्य, सस्य-वैविध्यस्य तथा कृष्याधारितानाम् अन्यानाम् आयसाधनानां विषये विशेषं ध्यानं दीयते। कृषकाणाम् आयवर्धनाय एकीकृतकृषिप्रणाली तथा स्थानीय-संसाधनाधारिताः प्रतिरूपाः विकसितव्याः।
श्रीचौहानः अवदत् यत् कृषिक्षेत्रस्य उपलब्धयः महत्त्वपूर्णाः सन्ति, किन्तु एतानि केवलं विश्रामस्थानानि सन्ति, लक्ष्यं न। प्रधानमन्त्रिणा नरेन्द्रमोदिना नवीनानि लक्ष्याणि प्रदत्तानि सन्ति तथा अधुना तेषां प्राप्तये सर्वैः विभागैः अधिकवेगेन गम्भीरतया च कार्यं करणीयम्।
चौहानः अवदत् यत् त्रयः कोटिग्रामिण्यः महिलाः ‘लखपति दीदी’ कर्तुं निर्धारितं लक्ष्यं प्राप्तम् अस्ति। अधुना प्रधानमन्त्रीमहोदयेन षट् कोटिलखपति-दीदी इत्यादिनां निर्माणस्य लक्ष्यं प्रदत्तम् अस्ति। सः अवदत् यत् त्रयाणां कोटिनां नवीनानां लखपति-दीदी इत्यादिनां निर्माणेन ग्रामीणार्थव्यवस्थायां महत्त्वपूर्णं परिवर्तनं भविष्यति।
कार्यक्रमे राज्यमन्त्री भागीरथचौधरी तथा डॉ. चन्द्रशेखरपेम्मासामी चतुर्णां विभागानां सचिवाः च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan