संस्कृतमस्माकं संस्कृतेः आत्मा, व्यशनमुक्त युवा एव राष्ट्रस्य सशक्तम् आधारः : अभिनव शर्मा
जम्मूः,, 18 अगस्तमासः (हि.स.)। संस्कृतमासस्य पावनेऽवसरे श्रीकैलखज्योतिषवैदिकसंस्थानन्यासस्य तत्त्वावधाने मङ्गलवासरे सन्तहरेरामदासजीपब्लिकविद्यालये, मण्डाले मढविधानसभाक्षेत्रे, संस्कृतशोभायात्रायाः नशामुक्तिरैल्याः च भव्यः आयोजनः कृतः। कार्यक्रमस्य
संस्कृतमस्माकं संस्कृतेः आत्मा, व्यशनमुक्त युवा एव राष्ट्रस्य सशक्तम् आधारः : अभिनव शर्मा


जम्मूः,, 18 अगस्तमासः (हि.स.)।

संस्कृतमासस्य पावनेऽवसरे श्रीकैलखज्योतिषवैदिकसंस्थानन्यासस्य तत्त्वावधाने मङ्गलवासरे सन्तहरेरामदासजीपब्लिकविद्यालये, मण्डाले मढविधानसभाक्षेत्रे, संस्कृतशोभायात्रायाः नशामुक्तिरैल्याः च भव्यः आयोजनः कृतः। कार्यक्रमस्य उद्देश्यम् आसीत् संस्कृतभाषायाः संरक्षणं, संवर्धनं, प्रचारप्रसारश्च, तथैव समाजे वर्धमानायाः नशाप्रवृत्तेः विरुद्धं जनजागरूकतायाः सृजनं युवकेषु च नशामुक्तजीवनं स्वीकर्तुं प्रेरणां प्रदातुम्।

कार्यक्रमे विद्यार्थिनः, शिक्षकाः, सामाजिकधार्मिकसङ्घटनानां प्रतिनिधयः, धार्मिकनेतारः क्षेत्रस्य गणमान्यनागरिकाश्च उत्साहपूर्वकं भागं गृहीतवन्तः। रैल्यां संस्कृतभाषायाः महत्त्वं नशायाः दुष्प्रभावाश्च अधिकृत्य विविधैः सन्देशैः जनान् जागरूकं कृतम्। प्रतिभागिभिः समाजं नशात् दूरं स्थापयितुं संस्कृतां प्राचीनां समृद्धां च भाषां जनजनं प्रति प्रापयितुं च सङ्कल्पः कृतः।

कार्यक्रमस्य मुख्यातिथिः वरिष्ठः अधिवक्ता अभिनवशर्मा अवदत् यत् संस्कृतं केवलं भाषा नास्ति, अपितु भारतस्य ज्ञानस्य, संस्कृतेः, परम्परायाः जीवनमूल्यानां च आधारशिला अस्ति। संस्कृतस्य अध्ययनप्रचाराभ्यां युवा-सन्ततिः स्वकीयैः सांस्कृतिकमूलैः सह सम्बद्धा भवितुं शक्नोति। सः अवदत् यत् वर्तमानसमये युवकेभ्यः नशासदृशायाः सामाजिकदुर्वृत्तेः रक्षणं सम्पूर्णस्य समाजस्य सामूहिकं दायित्वम् अस्ति। सः विद्यार्थिनः आह्वयन् अवदत् यत् ते स्वयम् नशात् दूरं तिष्ठन्तु तथा स्वपरिवारस्य समीपस्थानां जनानां च नशामुक्तजीवनाय प्रेरणां ददतु।

विद्यालयस्य प्रबन्धकः महन्तहरेरामदासजी अवदत् यत् शिक्षायाः उद्देश्यं केवलं पुस्तकीयज्ञानप्रदानं नास्ति, अपितु विद्यार्थिषु संस्कारस्य, अनुशासनस्य, नैतिकतायाः सामाजिकदायित्वस्य च भावनायाः विकासः अपि अस्ति। सः अवदत् यत् संस्कृतं अस्माकं गौरवशालिन्याः संस्कृतेः सनातनज्ञानपरम्परायाश्च महत्त्वपूर्णा कडी अस्ति। सः नशां समाजस्य विशेषतः युवा-सन्ततेः भविष्यस्य च कृते गम्भीरां चुनौतीं वर्णयन् अवदत् यत् विद्यालयैः, अभिभावकैः, धार्मिकसंस्थाभिः सामाजिकसङ्घटनैश्च सम्मिल्य नशायाः विरुद्धं निरन्तरं अभियानं चालयितुं आवश्यकता अस्ति।

श्रीकैलखज्योतिषवैदिकसंस्थानन्यासस्य अध्यक्षः महन्तरोहितशास्त्री अवदत् यत् संस्कृतभाषा भारतीयसंस्कृतेः, दर्शनस्य, अध्यात्मस्य, ज्योतिषस्य, आयुर्वेदस्य ज्ञानविज्ञानस्य च समृद्धां परम्परां स्वान्तर्भावयति। संस्कृतभाषां जनजनं प्रति प्रापयितुं नवसन्ततिं च तया सह संयोजयितुं वयं सर्वे उत्तरदायिनः स्मः। सः अवदत् यत् संस्कृतस्य प्रचारस्य सह नशामुक्तेः सन्देशं प्रदातुम् अस्य आयोजनस्य विशेषा भावना अस्ति, यतः संस्कारसम्पन्नाः स्वस्थाः च युवानः एव सशक्तस्य समाजस्य राष्ट्रस्य च निर्माणं कर्तुं शक्नुवन्ति।

महन्तरोहितशास्त्री अवदत् यत् नशा व्यक्तेः स्वास्थ्यं, परिवारं सामाजिकजीवनं च प्रभावितं कृत्वा राष्ट्रस्य युवा-शक्तिं दुर्बलीकरोति। सः युवानः आह्वयन् अवदत् यत् ते नशात् दूरं तिष्ठन्तु तथा शिक्षां, क्रीडां, संस्कारान्, आध्यात्मिकतां सर्जनात्मकक्रियाकलापांश्च स्वजीवनस्य अङ्गरूपेण स्वीकुर्वन्तु। सः अवदत् यत् नशामुक्तसमाजस्य निर्माणं केवलं सर्वकारीयप्रयत्नैः सम्भवं नास्ति, अपितु अस्य कृते प्रत्येकस्य परिवारस्य नागरिकस्य च स्वकीयां भूमिकां निर्वोढुं आवश्यकता अस्ति।

रैली पब्लिकविद्यालयात्, मण्डालतः प्रारभ्य समीपस्थान् प्रदेशान् परिक्रम्य पुनः विद्यालयपरिसरं प्राप्तवती। अस्यां यात्रायां प्रतिभागिभिः संस्कृतस्य प्रचारप्रसारस्य नशामुक्तसमाजस्य च सन्देशः प्रभाविरूपेण जनजनं प्रति प्रापितः। विद्यार्थिषु विशेषः उत्साहः दृष्टः तथा ते सामाजिकजागरूकतायाः अस्मिन् अभियाने वर्धमानोत्साहेन सहभागितां कृतवन्तः।

कार्यक्रमस्य समये उपस्थितैः वक्तृभिः उक्तं यत् संस्कृतभाषायाः भारतीयसंस्कृतेश्च प्रोत्साहनेन सह समाजं नशासदृशेभ्यः दुर्व्यसनेभ्यः मुक्तं कर्तुं एतादृशाः जनजागरूकताकार्यक्रमाः निरन्तरम् आयोजनीयाः। आयोजनेन संस्कृतसंरक्षणस्य सामाजिकजागरूकतायाश्च उभौ सन्देशौ एकस्मिन् मञ्चे प्रभाविरूपेण प्रस्तुतौ।

कार्यक्रमस्य अन्ते आयोजकैः सर्वेषाम् अतिथीनां, विद्यार्थिनां, शिक्षकाणां, सामाजिकधार्मिकसङ्घटनानां, गणमान्यनागरिकाणां, माध्यमप्रतिनिधीनां च कृतज्ञता प्रकटिता। तथैव समाजस्य सर्वेभ्यः वर्गेभ्यः संस्कृतस्य प्रचारप्रसारस्य नशामुक्तसमाजनिर्माणस्य च अभियाने सम्मिलितुं आह्वानं कृतम्।

अस्मिन् अवसरे विशेषरूपेण देवकीनन्दनशर्मा, पूर्वसर्पञ्चः वन्दनाकुमारी, अमनशर्मा, राकेशसिंहः, लक्कीशर्मा, अमितजामवालः, हनीसिंहः, कुलभूषणजामवालः इत्यादयः गणमान्यनागरिकाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani