Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 अगस्तमासः (हि.स.)।
विश्वपादकन्दुकक्रीडायाः सर्वोच्चसंस्था फीफा स्वस्य मुख्यसञ्चालनाधिकारी केविन लामूर इत्यनेन सह कार्यसम्बन्धं समाप्तवती अस्ति। फीफा-अध्यक्षस्य जियानी इन्फेंटिनो इत्यस्य विश्वचषकस्य भागं निवेशकेभ्यः विक्रेतुं योजनायाः लामूर इत्यनेन आलोचना कृता आसीत्, तदनन्तरम् एषः घटनाक्रमः समक्षम् आगतः।
फीफा-संस्थायाः कर्मचारिभ्यः संस्थायाः महासचिवेन मटियास ग्राफस्ट्रोम इत्यनेन विद्युत्पत्रमाध्यमेन अस्य निर्णयस्य सूचना प्रदत्ता। विद्युत्पत्रे उक्तं यत् फीफा तथा लामूर परस्परसहमत्या पृथग्भवितुं निर्णयं कृतवन्तौ।
बीबीसी स्पोर्ट्स इत्यस्य अनुसारं फीफा-संस्थायाः प्रवक्ता अवदत्, “मुख्यसञ्चालनाधिकारिरूपेण फीफा तथा केविन लामूर इत्यनयोः कार्यसम्बन्धः २०२६ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के समाप्तः। फीफा तस्य द्विवर्षीयसेवायै धन्यवादं ज्ञापयति तथा तस्य भविष्याय शुभकामनाः प्रकटयति।”
लामूर इत्यस्य प्रस्थानं तस्मिन् समये जातम् अस्ति, यदा सः इन्फेंटिनो इत्यस्य विश्वचषकस्य भागं निवेशकेभ्यः विक्रेतुं योजनायाः विषये स्पष्टतया प्रश्नान् उत्थापितवान् आसीत्। अनन्तरं यूईएफए, एएफसी, कॉनकाकाफ इत्यादीनां प्रमुखपादकन्दुकसंस्थानां तीव्रप्रतिक्रियायाः पश्चात् इन्फेंटिनो एतां योजनां परित्यक्तवान् आसीत्।
लामूरः एतां योजनां “एकस्य व्यक्तेः परियोजना” इति कथितवान् आसीत्। सः एतदपि आरोपितवान् यत् अस्याः योजनायाः विषये फीफा-प्रशासनं “भ्रमितं” कृतम् आसीत्।
सः उक्तवान् आसीत्, “अस्माकं ध्येयम्—फीफा-संस्थायाः शतशः समर्पितानां उत्साहपूर्णानां च कर्मचारिणां ध्येयम्—पादकन्दुकक्रीडायाः सेवा अस्ति। अध्यक्षेण जनाः एकत्र आनेतव्याः, एकीकर्तव्याः प्रेरयितव्याश्च। अद्य वयम् अस्य विपरीतां स्थितिम् अनुभवामः।”
लामूरः स्वस्य कार्यस्य समाप्तेः सम्भावनायामपि स्पष्टं मतं प्रकटितवान् आसीत्। सः उक्तवान् आसीत्, “यदि अस्य अर्थः अस्ति यत् अहं स्वकार्यं गमिष्यामि, तर्हि तथैव भवतु। अहं तं निर्णयं ज्ञास्यामि सम्मानयिष्यामि च। न्यूनातिन्यूनं तस्यां रात्रौ अहं शान्त्या निद्रां कर्तुं शक्नोमि।”
यूईएफए, एएफसी तथा कॉनकाकाफ इत्येतैः विरोधः प्रकटितः आसीत्
विश्वचषकस्य भागं विक्रेतुं योजनायाः विषये यूईएफए, कॉनकाकाफ तथा एएफसी इत्येतैः अपि फीफा-संस्थायां गम्भीराः आरोपाः कृताः आसन्। त्रिभिः संस्थाभिः संयुक्तवक्तव्ये एतत् “विश्वासस्य मूलभूतम् उल्लङ्घनम्” तथा “छलस्य” प्रकरणम् इति कथितम् आसीत्।
संयुक्तवक्तव्ये उक्तम् आसीत् यत् विषयः केवलं कस्याश्चित् योजनायाः नास्ति, अपितु “क्रीडायाः गरिम्णा तथा तस्याः सञ्चालनाय निर्वाचितानां जनानाम् ईमानदारितया” सम्बद्धः अस्ति।
संस्थाभिः एतदपि उक्तम् आसीत् यत् पादकन्दुकक्रीडायां नेतृत्वं कस्यचित् व्यक्तेः निजीसम्पत्तिः नास्ति, अपितु सम्पूर्णस्य पादकन्दुकपरिवारस्य सेवायाः दायित्वम् अस्ति। तेषाम् अनुसारं यदा छलेन विश्वासः भङ्ग्यते तथा कश्चित् व्यक्तिः तस्मात् सामूहिकसंस्थानात् आत्मानम् उच्चतरं मन्यते, येन तस्मै अधिकारः प्रदत्तः, तदा नेतृत्वस्य दायित्वं परित्यक्तं भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani