Enter your Email Address to subscribe to our newsletters

चेन्नई, १८ अगस्तमासः (हि.स.)। तमिलनाडुविधानसभायां मङ्गलवासरे अनुदानमागानां विषये चर्चायाः समये कर्नाटकस्य वनक्षेत्रे वनविभागस्य गोलीप्रहारेण मृतानां त्रयाणां तमिलानां विषयः प्रमुखतया उत्थापितः। विपक्षनेता उदयनिधिः स्टालिनः, अन्नाद्रमुक्-दलस्य महासचिवः पूर्वमुख्यमन्त्री च एडप्पाडी के. पलानीस्वामी इत्यादयः सदस्याः ध्यानाकर्षणप्रस्तावस्य माध्यमेन घटनायाः निष्पक्षान्वेषणं मृतकानां परिवाराणां च कृते पर्याप्तां आर्थिकसहायतां दातुं याचनां कृतवन्तः।
विधानसभायाः सभां मङ्गलवासरे प्रातः ९.३० वादने प्रारब्धा। अनुदानयाचनानां विषये चर्चा सोमवासरात् प्रारब्धा आसीत् तथा मङ्गलवासरे द्वितीयदिनेऽपि सा अनुवर्तिता। अस्मिन्नेव क्रमे कर्नाटके घटितस्य गुटिकाकाण्डस्य विषये विपक्षस्य सदस्याः सर्वकारात् स्पष्टं उत्तरं याचितवन्तः।
अन्नाद्रमुक्-दलस्य महासचिवः एडप्पाडी के. पलानीस्वामी उक्तवान् यत् कर्नाटकस्य वनक्षेत्रे त्रयाणां तमिलानां गुटिकाप्रहारेण हत्या गम्भीरा घटना अस्ति। सः घटनायाः निष्पक्षान्वेषणस्य मागं कुर्वन् उक्तवान् यत् यदि अन्वेषणं निष्पक्षरूपेण कर्तव्यं भवति तर्हि तत् केन्द्रीयान्वेषण-संस्थायै समर्पणीयम्।
पलानीस्वामी उक्तवान् यत् कर्नाटकसर्वकारेण घोषिता आर्थिक-सहायता मृतकानां परिवाराणां कृते पर्याप्ता नास्ति। सः तमिलनाडुसर्वकारं प्रभावितपरिवारेभ्यः उचितां पर्याप्तां च वित्तीयसहायतां प्रदातुम् आग्रहं कृतवान्।
भारतीय-कम्युनिस्ट-पक्षस्य विधायकः थली रामचन्द्रन् अपि घटनां गम्भीरां वर्णयन् कर्नाटकस्य राज्यवनविभागस्य अधिकारिभ्यः विरुद्धं हत्यायाः प्रकरणं पञ्जीकर्तुं याचनां कृतवान्। सः उक्तवान् यत् घटनायाः निष्पक्षतां सुनिश्चितं कर्तुं कर्नाटकसर्वकारेण सीबीआई-अन्वेषणस्य आदेशः दातव्यः।
विपक्षस्य याचनानां प्रत्युत्तरं ददन् तमिलनाडोः वनविभागस्य मन्त्री रञ्जितकुमारः विधानसभायां सूचितवान् यत् मुख्यमन्त्रिणः जोसेफविजयस्य निर्देशानुसारं कर्नाटके गुटिकाप्रहारेण मृतानां त्रयाणां तमिलानां परिवारेभ्यः १०-१० लक्षरूप्यकाणां आर्थिकसहायतां दातुं प्रक्रिया क्रियते।
मन्त्री उक्तवान् यत् अस्मिन् विषये वनविभागस्य अधिकारिभिः सह परामर्शः क्रियते तथा शीघ्रमेव मृतकानां परिवारेभ्यः सहायताराशिः प्रदास्यते। अस्याः घोषणायाः अनन्तरं सर्वकारस्य पक्षतः मृतकानां परिजनेभ्यः ३० लक्षरूप्यकाणां सहायता प्रदातुं मार्गः प्रशस्तः अभवत्।
शिकारसमये अभवत् गुटिकाकाण्डम्
सूचितं यत् कर्नाटकस्य वनक्षेत्रे चत्वारः तमिलाः कथितरूपेण मृगस्य शिकारार्थं देशीयबन्दूकाभिः सह गतवन्तः आसन्। तस्याः सूचनायाः प्राप्तेः अनन्तरं कर्नाटकस्य वनविभागस्य अधिकारिणः घटनास्थलं प्राप्तवन्तः। तत्र वनविभागस्य अधिकारिणां तमिलानां च मध्ये गुटिकाकाण्डः अभवत्।
घटनायाः समये वनविभागस्य अधिकारिभिः कृते गुटिकाप्रहारे त्रयः जनाः घटनास्थले एव मृताः। अपरः एकः जनः गुटिकाप्रहारेण आहतः अभवत्, यस्य चिकित्सालये उपचारः प्रचलति।
त्रयाणां तमिलानां मृत्योः घटना प्रकाशं प्राप्तवती ततः तमिलनाडुराज्ये राज-नैतिकचञ्चलता तीव्रा अभवत्। विभिन्न-राजनैतिकदलानां नेतारः घटनां प्रति चिन्तां प्रकटयन्तः निष्पक्षान्वेषणस्य याचनां कृतवन्तः। मृतकानां परिवाराणां कृते पर्याप्तां आर्थिकसहायतां दातुम् आग्रहः अपि निरन्तरं क्रियते स्म।
अधुना विधानसभायां सर्वकारस्य पक्षतः त्रयाणां मृतकानां परिवारेभ्यः १०-१० लक्षरूप्यकाणि दातुं घोषणा कृता अनन्तरं अस्मिन् विषये सर्वकारस्य मतं स्पष्टम् अभवत्। तथापि विपक्षः घटनायाः सीबीआई-अन्वेषणं तथा कर्नाटकस्य वनविभागस्य अधिकारिभ्यः विरुद्धं कार्यवाहीं कर्तुं स्वकीयां याचनां यथावत् स्थापयति।
Hindusthan Samachar / Divya Ranjan