परिवर्तमानभारतीयविद्यालयीयशिक्षा - यूडीआईएसई-प्लस-दत्तांशेषु आधारभूतसंरचनायाः, समावेशनस्य गुणवत्तायाश्च महत्त्वपूर्णं परिवर्तनं प्रदर्शितम्
नवदिल्ली, १८ अगस्तमासः (हि.स.)। देशस्य विद्यालयीयशिक्षाव्यवस्थायां केवलं कक्षाणां संख्या एव न वर्धते, अपि तु शिक्षणस्य गुणवत्ता, लैङ्गिकसमानता तथा आधारभूतसंरचनायाः स्तरः अपि दृढव्यापकपरिवर्तनं दर्शयति। केन्द्रीयशिक्षामन्त्रालयस्य अङ्कीय-पटलस्य यून
प्रतीकात्मक


नवदिल्ली, १८ अगस्तमासः (हि.स.)। देशस्य विद्यालयीयशिक्षाव्यवस्थायां केवलं कक्षाणां संख्या एव न वर्धते, अपि तु शिक्षणस्य गुणवत्ता, लैङ्गिकसमानता तथा आधारभूतसंरचनायाः स्तरः अपि दृढव्यापकपरिवर्तनं दर्शयति।

केन्द्रीयशिक्षामन्त्रालयस्य अङ्कीय-पटलस्य यूनिफाइड् डिस्ट्रिक्ट् इन्फॉर्मेशन सिस्टम फॉर एजुकेशन प्लस इत्यस्य प्रकाशिते २०२५-२६ प्रतिवेदने देशस्य १४.६७ लक्षं विद्यालयानां, १.०३ कोटिशिक्षकाणां तथा २४.७२ कोटिविद्यार्थिनां च अध्ययनस्य आधारः अस्ति। राष्ट्रियशिक्षानीतेः २०२० अनुरूपं दत्तांशं दर्शयति यत् भारतीयविद्यालयाः अधुना अधिकसमावेशिनः, साधनसम्पन्नाः छात्रकेन्द्रिताश्च भवन्ति। अधिगमस्य उत्तमपरिणामानां कृते शिक्षक-छात्रयोः अनुपातः सर्वाधिकमहत्त्वपूर्णेषु घटकेषु एकः अस्ति।

प्रतिवेदनानुसारं प्राथमिकस्तरात् माध्यमिकस्तरपर्यन्तं छात्र-शिक्षकानुपाते उल्लेखनीयः सुधारः अभवत्। अस्मिन् आधारभूतस्तरे १०:१ अर्थात् प्रत्येकं दश छात्रेषु एकः शिक्षकः, प्रारम्भिकस्तरे १२:१, मध्यस्तरे १७:१ तथा माध्यमिकस्तरे २१:१ इति अनुपातः अस्ति। एषः सन्तुलितानुपातः शिक्षकान् प्रत्येकस्मिन् बालके व्यक्तिगततया ध्यानं दातुं तथा कक्षायां संवादाधारितशिक्षणं प्रोत्साहयितुं समर्थान् करोति।

भारतीयविद्यालयीयव्यवस्थायाः पुरातनी समस्या आसीत् मध्ये एव शिक्षां त्यक्त्वा गमनम् अर्थात् ड्रॉपआउट्। तस्याः दरः निरन्तरं न्यूना भवति। प्रारम्भिकस्तरे ड्रॉपआउट्-दरः १.८ प्रतिशतं तथा माध्यमिकस्तरे ७.० प्रतिशतं यावत् न्यूनम् अभवत्। तदनन्तरं छात्राणां विद्यालयेषु स्थायित्वस्य दत्तांशं दर्शयति यत् प्राथमिकस्तरे ९८.५ प्रतिशतं, प्रारम्भिकस्तरे ९१.१ प्रतिशतं तथा मध्यस्तरे ८३.७ प्रतिशतं छात्राः स्वशिक्षां निरन्तरं कुर्वन्ति। आधारभूतस्तरात् प्रारम्भिकस्तरं प्रति ९९.२ प्रतिशतं तथा मध्यस्तरे ९३.८ प्रतिशतं छात्राणां अग्रिमकक्षां प्रति संक्रमणं शिक्षाप्राप्तेः निरन्तरतां सुदृढं करोति।

सकलनामाङ्कनानुपातस्य विषये मध्यस्तरे ८९.६ प्रतिशतस्य उच्चस्तरे स्थितः अस्ति, यदा तु माध्यमिकस्तरे सः सुधृत्य ७१.७ प्रतिशतं प्राप्तवान्। २४.७२ कोटिनामाङ्कनेषु माध्यमिकस्तरस्य भागः २७.१६ प्रतिशतं, प्रारम्भिकस्तरस्य २५.६० प्रतिशतं, मध्यस्तरस्य २५.५८ प्रतिशतं तथा आधारभूतचरणस्य २१.६६ प्रतिशतं अस्ति। एतत् विद्यालयीयशिक्षायाः प्रत्येकस्मिन् चरणे छात्राणां सन्तुलितसहभागितां रेखाङ्कयति।

शिक्षायाः लोकतन्त्रीकरणे सामाजिक-समावेशनस्य दत्तांशः अपि सुदृढः अस्ति। कुलनामाङ्कनेषु अन्यपृष्ठवर्गस्य भागः ४४.९ प्रतिशतं अस्ति, यदा तु अनुसूचितजातिः १७.७ प्रतिशतं तथा अनुसूचितजनजातिः १० प्रतिशतं इति मिलित्वा २७.७ प्रतिशतं भवति। सामान्यवर्गस्य भागः २७.५ प्रतिशतं अभिलिखितः अस्ति।

लैङ्गिकसमानतायाः दृष्ट्या कुलछात्र-नामाङ्कने छात्राणां भागः ४८.४ प्रतिशतं अस्ति। अपरतः अध्यापनक्षेत्रे महिला-शिक्षकाणां सहभागिता वर्धित्वा ५४.९ प्रतिशतं यावत् प्राप्ता अस्ति, या प्राथमिक-माध्यमिकशिक्षयोः महिलानां वर्धमानं नेतृत्वं प्रमाणयति।

विद्यालयानां आधुनिकीकरणस्य अन्तर्गतं प्रौद्योगिकीआधारितशिक्षायै नूतना गतिः प्राप्ता अस्ति। अधुना ६९.९ प्रतिशतं विद्यालयेषु सङ्गणकसुविधा उपलब्धा अस्ति, यदा तु ६७.४ प्रतिशतं विद्यालया: अन्तर्जालसम्पर्केन युक्ता: सन्ति। भौतिकसुविधानां विषये आधारभूताः आवश्यकताः प्रायः परिपूर्णतायाः स्तरं प्राप्ताः सन्ति। ९९.५ प्रतिशतं विद्यालयेषु स्वच्छपेयजलम्, ९८.५ प्रतिशतं विद्यालयेषु बालिकानां कृते पृथक् शौचालयः, ९७.२ प्रतिशतं विद्यालयेषु बालकानां कृते शौचालयः, ९५ प्रतिशतं विद्यालयेषु विद्युत्प्रदायः, ९०.५ प्रतिशतं विद्यालयेषु पुस्तकालयसुविधा तथा ५८.२ प्रतिशतं विद्यालयेषु हस्तरेलयुक्ताः रैम्प्-सुविधाः उपलब्धाः सन्ति।

प्रशासनिकस्तरेऽपि सुधारः स्पष्टतया दृश्यते। शिक्षकाणां तर्कसङ्गत-पदस्थापनस्य कारणेन एकशिक्षकयुक्त-विद्यालयानां संख्या प्रायः ३ प्रतिशतं न्यूना जाता तथा सा १,००,८४३ यावत् आगता अस्ति। अपरतः शून्यनामाङ्कन-युक्तविद्यालयेषु २९ प्रतिशतस्य महती न्यूनता अभिलिखिता अस्ति, येन तेषां संख्या ५,६६३ यावत् न्यूनीभूता अस्ति।

यूडीआईएसई-प्लस् २०२५-२६ इत्यस्य एते दत्तांशाः स्पष्टं कुर्वन्ति यत् भारतीय-विद्यालयीयशिक्षा केवलं साक्षरतायां सीमिता न भूत्वा आधारभूत-संरचनायाः विस्तारस्य, प्रौद्योगिक्याः समावेशनस्य तथा गुणवत्तापूर्णशिक्षायाः नूतनयुगे प्रविष्टा अस्ति। साक्ष्याधारितः अयं दत्तांशः भविष्यस्य नीतयः अधिकप्रभाविण्यः कर्तुं केन्द्रीयां भूमिकां निर्वक्ष्यति।

Hindusthan Samachar / Divya Ranjan