Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ अगस्तमासः (हि.स.)। भारतीयविशिष्टपरिचयप्राधिकरणेन विद्यालयीयबालकानां आधारे अनिवार्य-जैवमितीय-अद्यतनीकरणाय सञ्चाल्य-मानस्य राष्ट्रव्यापिनः अभियानस्य अन्तर्गतं द्विकोट्यधिकानि अद्यतनी-करणानि सम्पन्नानि। अस्य विशेषाभियानस्य अन्तर्गतं अधुना पर्यन्तं देशस्य सर्वत्र प्रायः १.५६ लक्षं विद्यालया: आच्छादिता: सन्ति।
यूआईडीएआई-संस्थया मङ्गलवासरे सूचितं यत् सितम्बर २०२५ तमे वर्षे प्रारब्धस्य अस्य अभियानस्य यूडीआईएसई-इत्यनेन सह कृतस्य प्राविधिकसमायोजनेन सहायता प्राप्ता अस्ति। अस्य माध्यमेन विद्यालयेषु बालकानां एमबीयू-स्थितेः सूचना उपलब्धा भवति। यूआईडीएआई तथा राज्येषु केन्द्रशासितप्रदेशेषु च शिक्षा-विभागानां समन्वयेन विद्यालयस्तरे विशेषशिबिराणि आयोजितानि, येन बालकेभ्यः आधारस्य जैवमितीय-अद्यतनीकरणस्य सुविधा तेषां विद्यालयेषु एव उपलब्धा कृता।
यूआईडीएआई-अनुसारं पञ्चवर्षेभ्यः न्यूनवयस्कानां बालकानां आधार-नामाङ्कनस्य समये जनसांख्यिकीय-विवरणं छायाचित्रं च गृह्यते, किन्तु तस्मिन् वयसि अङ्गुलिचिह्नानि नेत्रपटलस्य च जैवमितीयविवरणं न अभिलिख्यते, यतः अस्मिन् वयसि एतानि जैवमितीय-विशेषतानि विकसितानि भवन्ति। एमबीयू-माध्यमेन बालकानां आधारे काले-काले अद्यतनं जैवमितीयविवरणं सुनिश्चितं क्रियते।
बालकेन पञ्चवर्षीयवयः पूर्णे कृते ततः पुनः पञ्चदशवर्षीयवयः प्राप्ते अनिवार्यं जैवमितीय-अद्यतनीकरणं कारयितव्यम्। समये एमबीयू कारयित्वा विद्यालयीय-शिक्षातः उच्चशिक्षां प्रति अग्रे गच्छतां बालकानां आधारप्रमाणीकरणस्य प्रक्रिया सुचारुरूपेण प्रवर्तते तथा तेषां विविधासु सर्वकारीयसेवासु योजनासु च लाभप्राप्तौ सुविधा भवति, यत्र आधारप्रमाणीकरणम् आवश्यकं भवितुम् अर्हति।
यूआईडीएआई-संस्थया बालकानां एमबीयू प्रोत्साहितुं तस्य अधिकसुलभतां च कर्तुं शुल्केऽपि न्यूनता प्रदत्ता अस्ति। सप्तवर्षात् पञ्चदशवर्षपर्यन्तं वयस्कानां बालकानां कृते एमबीयू-शुल्कं १ अक्तूबर् २०२५ दिनाङ्कात् एकवर्षपर्यन्तं क्षमा कृता अस्ति, यदा तु पञ्चवर्षात् सप्तवर्षपर्यन्तं तथा पञ्चदशवर्षात् सप्तदशवर्षपर्यन्तं वयस्कानां बालकानां कृते एमबीयू पूर्वमेव निःशुल्कम् अस्ति। अतः ३० सितम्बर् २०२६ पर्यन्तं पञ्चवर्षात् सप्तदशवर्षपर्यन्तं वयस्कानां बालकानां कृते एमबीयू निःशुल्कम् अस्ति।
यूआईडीएआई-संस्थया अभिभावकेभ्यः संरक्षकेभ्यश्च बालकानां आधारे समये एमबीयू कारयितुं आग्रहः कृतः। प्राधिकरणस्य अनुसारं एमबीयू न कारयित्वा विविधासु सर्वकारीययोजनासु लाभप्राप्त्यर्थं आधारप्रमाणीकरणे कठिनता भवितुं शक्नोति। तदतिरिक्तं नीट्, जेईई तथा सीयूईटी इत्यादीनां प्रतियोगितापरीक्षाणां विश्वविद्यालय-प्रवेशपरीक्षाणां च पञ्जीकरणेऽपि समस्या भवितुं शक्नोति।
Hindusthan Samachar / Divya Ranjan