Enter your Email Address to subscribe to our newsletters

देहरादूनम्, १८ अगस्तमासः (हि.स.)। उत्तराखण्डे २०२७ तमस्य विधानसभा-निर्वाचनस्य सज्जतायाः मध्ये सत्तारूढः भारतीयजनतापक्षः सङ्घटनं निर्वाचन-दृष्ट्या अधिकं सक्रियं कर्तुं प्रयत्नान् तीव्रान् कृतवान् अस्ति। अस्यैव क्रमे मङ्गलवासरे भाजपायाः प्रदेश-मुख्यालये गढवालसम्भागस्य सांसद-विधायकानां सभा आयोजिता। सभायां टिहरी, गढवाल तथा हरिद्वारस्य सांसदैः, विधायकैः जनपदाध्यक्षैश्च सह विधान-सभास्तरीयेषु राजनैतिकेषु सङ्गठनात्मकसम्बन्धेषु च विस्तरेण विचारविमर्शः कृतः।
मुख्यमन्त्री पुष्करसिंहधामी तथा भाजपायाः प्रदेशाध्यक्षः राज्यसभासदस्यश्च महेन्द्रभट्टः इत्येतयोः नेतृत्वे आयोजितायां सभायाम् अग्रिमविधानसभानिर्वाचनस्य दृष्ट्या सङ्गठनात्मकसज्जता, सर्वकारस्य विकासकार्याणां जनसामान्यं प्रति प्रसारणम्, जनप्रतिनिधीनां सङ्गठनस्य च मध्ये समन्वयस्य सुदृढीकरणम् तथा दुर्बलविधानसभाक्षेत्राणां कृते विशेष-रणनीतेः निर्माणम् इत्यादिषु विषयेषु चर्चा कृता।
सभायां प्रत्येकं विधानसभाक्षेत्रस्य वर्तमानराजनैतिकपरिस्थितिनां, विकासकार्याणां, सामाजिकसमीकरणानां सङ्घटनस्य स्थितेश्च समीक्षा कृता। पक्षस्य नेतृत्वेन विधायकैः जनपदाध्यक्षैश्च स्वस्वक्षेत्राणां विषये प्रतिक्रियाः प्राप्ताः तथा अग्रिमकाले आयोजनीयानां कार्य-क्रमाणाम् अभियानानां च विषये आवश्यकाः निर्देशाः प्रदत्ताः।
सभायाः अनन्तरं मुख्यमन्त्री धामी अवदत् यत् भाजपा क्रमबद्धरूपेण सङ्गठनस्य विभिन्नस्तरैः सह सभाः करोति। एतद् पूर्वं नगरपालिकानां जनप्रतिनिधिभिः, जनपदपञ्चायताध्यक्षैः, विकास-खण्डप्रमुखैः, मण्डलाध्यक्षैः जनपदाध्यक्षैश्च सह सभाः आयोजिताः। अस्मिन्नेव क्रमे संसदीयक्षेत्रानुसारं सांसदैः विधायकैश्च सह चर्चा क्रियते। सभाभ्यः प्राप्तानां प्रतिक्रियाणाम् आधारेण पक्षस्य अग्रिमकार्ययोजना सज्जीक्रियते तथा आगामिकाले एताः योजनाः धरातले कार्यान्विताः करिष्यन्ते।
मुख्यमन्त्री जनप्रतिनिधिभ्यः कार्यकर्तृभ्यश्च केन्द्रसर्वकारस्य राज्य-सर्वकारस्य च विकासयोजनाः जनकल्याणकारीकार्यक्रमांश्च अधिक-प्रभावेण जनसामान्यं प्रति प्रापयितुम् आह्वानं कृतवान्। सः अवदत् यत् सर्वकारस्य योजनानां लाभः प्रत्येकं पात्राय आवश्यकतावते च जनाय प्राप्नुयात्, अस्मिन् सङ्गठनस्य कार्यकर्तॄणां च महत्त्वपूर्णा भूमिका अस्ति।धामी वर्षाकालस्य प्राकृतिकापदां स्थितिं दृष्ट्वा कार्यकर्तॄन् जनप्रतिनिधींश्च प्रशासनेन सह समन्वयं स्थापयित्वा प्रभावितानां जनानां यथासम्भवं साहाय्यं कर्तुं अपि कथितवान्। सः अवदत् यत् जनसमस्यानां समयबद्धसमाधानं जनसेवां च प्राथमिकतां दत्त्वा कार्यं करणीयम्।
सर्वेषु सप्ततिविधानसभाक्षेत्रेषु चर्चा कृता — भट्टः
भाजपायाः प्रदेशाध्यक्षः महेन्द्रभट्टः अवदत् यत् गढवालसम्भागस्य त्रिषु लोकसभाक्षेत्रेषु आयोजितायां सभायां प्रत्येकं विधानसभाक्षेत्रस्य राजनैतिक-परिदृश्यस्य विषये चर्चा कृता। एतद् पूर्वं कुमाऊँसम्भागेऽपि संसदीयक्षेत्रानुसारं सांसदैः विधायकैश्च सह सभाः आयोजिताः आसन्।
सः अवदत् यत् राज्यस्य सर्वासु ७० विधानसभा-आसनेषु पक्षेन विस्तरेण मन्थनं कृतम् अस्ति। प्रत्येकं विधानसभाक्षेत्रे पक्षस्य विजयः सुनिश्चितः भवेत् इति दृष्ट्या केषां कार्यक्रमाणां प्राथमिकता भवेत्, विधायकानां स्वविधानसभाक्षेत्रेषु प्रवासः कथं वर्धयितव्यः तथा क्षेत्रस्य विकासाय सर्वकारेण कानि कार्याणि कारयितुं शक्यन्ते इत्यादिषु सर्वेषु विषयेषु चर्चा कृता।
महेन्द्रभट्टः अवदत् यत् यूनां, महिलानां पूर्वसैनिकानां च सम्बद्धकार्यक्रमाणां रूपरेखायाः तेषाम् आयोजनस्य च विषये अपि सभायां विचारविमर्शः अभवत्। विधायकैः स्वस्वक्षेत्राणां राजनैतिक-परिस्थितीनां, जनसम्बद्धविषयाणां सङ्घटनस्य स्थितेश्च सूचना प्रदेशनेतृत्वाय प्रदत्ता।
प्रदेशाध्यक्षः अवदत् यत् जनप्रतिनिधीनां सङ्गठनस्य च मध्ये उत्तमः समन्वयः निर्वाचनसज्जतायै एव न, अपितु जनहिताय अपि आवश्यकः अस्ति। विधायकैः कार्यकर्तृभिः सह नियमित-संवादः स्थापनीयः तथा सङ्घटनस्य सर्वेषु स्तरेषु समन्वयः अधिकं सुदृढः करणीयः इति निर्देशाः प्रदत्ताः। मण्डलस्तरीय-पदाधिकारिभिः प्रदेशस्तरीयसम्बद्ध-पदाधिकारिभिश्च सह विधायकानां सामूहिकसभाः अपि शीघ्रमेव आयोजयिष्यन्ते।
दुर्बलानां निर्वाचनक्षेत्राणां कृते अपि विशेषरणनीतिः
भाजपायाः पराजितानां दुर्बलानां च विधानसभाक्षेत्राणां विषये भट्टः अवदत् यत् पक्षेन किमपि क्षेत्रं उपेक्षितं नास्ति। सर्वेषां ७० विधानसभाक्षेत्राणां राजनैतिक-परिस्थितीनां विषये मन्थनं कृतम् अस्ति तथा प्रत्येकं क्षेत्रस्य स्थानीय-परिस्थितीनाम् अनुरूपं रणनीतिः सज्जीक्रियते। सः अवदत् यत् पक्षस्य उद्देश्यं केवलं निर्वाचनसज्जतापर्यन्तं सीमितः नास्ति, अपितु मतदानकेन्द्रस्तरपर्यन्तं सङ्घटनं सुदृढं कर्तुं कार्यकर्तॄणां सक्रियतां वर्धयितुं च प्राथमिकता अस्ति।
जनप्रतिक्रियाम् आधारीकृत्य भाजपा घोषणापत्रं सज्जीकरिष्यति
प्रदेशाध्यक्षः अवदत् यत् भाजपा निर्धारितसङ्गठनात्मकप्रक्रियायाः अन्तर्गतं घोषणापत्रं सज्जीकरोति। सः अवदत् यत् पक्षः जनसामान्येभ्यः प्रतिक्रियाः प्राप्य अग्रिमघोषणापत्रे के विषयाः समावेशनीयाः इति निर्धारयति। सः कांग्रेसपक्षं प्रति आलोचनां कृत्वा अवदत् यत् तत्र पूर्वमपि घोषणापत्रसमितयः निर्मिताः, किन्तु तासां प्रभावः जनसामान्येषु दृश्यते न। सः उक्तवान् यत् भाजपा सङ्घटनात्मकप्रक्रियायाः जन-विचाराणां च आधारेण घोषणापत्रं सज्जी-करिष्यति तथा तस्मिन् समावेशनीयानां विषयाणां विषये अपि पक्षस्य अन्तः चर्चा प्रचलति।
विकासकार्याणाम् आधारेण निर्वाचनक्षेत्रं प्रवेक्ष्यति भाजपा — बलूनी
गढवालस्य सांसदः भाजपायाः नवनियुक्तः राष्ट्रीयमाध्यमसंयोजकश्च अनिलबलूनी अवदत् यत् पक्षः अग्रिमनिर्वाचने विकासं स्वस्य निर्वाचनरणनीतेः प्रमुखाधारं करिष्यति। सः अवदत् यत् गतप्रायेषु दशवर्षेषु उत्तराखण्डे सम्पन्नानि विकासकार्याणि सर्वकारस्य कार्य-वृत्तान्तश्च जनसामान्यस्य पुरतः अस्ति।
बलूनी अवदत् यत् पूर्वस्मिन् निर्वाचने याः न्यूनताः अवशिष्टाः आसन्, ताः अस्मिन् समये दूरीकर्तुं प्रयत्नः करिष्यते। सः अवदत् यत् भाजपा विकासाधारित-दृष्टिकोणेन निर्वाचनस्य सज्जतां करोति तथा विगतेषु वर्षेषु कृतानां कार्याणाम् आधारेण जनसामान्यं प्रति गमिष्यति। उत्तराखण्डस्य विकासं प्रति पक्षस्य स्पष्टं दृष्टिकोणम् अस्ति तथा अस्मिन्नेव दिशि अग्रे कार्यं करिष्यते। सः विश्वासं व्यक्तवान् यत् सर्वकारस्य कार्याणाम् आधारेण प्रदेशस्य जनाः आगामीनिर्वाचने पुनः भाजपायै समर्थनं प्रदास्यन्ति।
हरिद्वारस्य भाजपासांसदः पूर्वमुख्यमन्त्री च त्रिवेन्द्रसिंहरावतः अवदत् यत् अग्रिम-विधानसभानिर्वाचने पक्षः पूर्वापेक्षया अधिकं परिश्रमं करिष्यति। सः अवदत् यत् निर्वाचने कस्यापि स्तरे प्रमादाय स्थानं नास्ति तथा सङ्गठनं पूर्णशक्त्या निर्वाचनक्षेत्रे अवतरितव्यम्।
सः स्वीकृतवान् यत् पूर्वस्मिन् विधानसभानिर्वाचने हरिद्वारक्षेत्रे भाजपा अपेक्षितं प्रदर्शनं कर्तुं न शक्तवती, किन्तु सः उक्तवान् यत् अस्मिन् समये पक्षः स्वस्थितिं सुदृढं करिष्यति तथा हरिद्वारे पूर्वापेक्षया अधिकासु विधानसभा-आसनेषु विजयम् अवाप्स्यति।
सभायां राज्यसभासदस्यः नरेशबंसलः, प्रदेशमहासचिवाः दीप्तिरावत्, कुन्दन-परिहारः तरुणबंसलश्च इत्यादयः सांसदाः, विधायकाः, जनदपाध्यक्षाः, प्रदेश-पदाधिकारिणः अन्ये वरिष्ठपक्षनेतारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan