सन्तरविदासस्य विचाराः तेन प्रदत्ताः सन्देशाश्च अद्यापि तावदेव प्रासङ्गिकाः — सिद्धार्थनाथसिंहः
सामाजिकसमरसतायाः सन्देशं दत्त्वा बलियां प्रति प्रस्थिता कलशवन्दनयात्रा प्रयागराजः, १८ अगस्तमासः (हि.स.)। सन्तरविदासः अस्माकं सर्वेषां सन्ति तथा तेन समाजं एकसूत्रे बद्धुं महत्त्वपूर्णं कार्यं कृतम्। भारतीयजनतापक्षः एतस्याः सामाजिकसमरसतायाः ऐक्यस्य
बलिया रवाना होने से पूर्व कलश यात्रा का छाया चित्र


सामाजिकसमरसतायाः सन्देशं दत्त्वा बलियां प्रति प्रस्थिता कलशवन्दनयात्रा

प्रयागराजः, १८ अगस्तमासः (हि.स.)। सन्तरविदासः अस्माकं सर्वेषां सन्ति तथा तेन समाजं एकसूत्रे बद्धुं महत्त्वपूर्णं कार्यं कृतम्। भारतीयजनतापक्षः एतस्याः सामाजिकसमरसतायाः ऐक्यस्य च सन्देशं जनं जनं प्रति प्रेषयितुं कलशवन्दना-यात्रायाः आयोजनं करोति। एतद् उक्तवान् मङ्गलवासरे सन्त-रविदासस्य ६५०तम-जयन्तीवर्षस्य अवसरे आयोज्यमानायाः कलशवन्दन-यात्रायाः बलियां प्रति प्रस्थानात् पूर्वं भाजपा-कार्यकर्तॄन् सम्बोधयन् पश्चिमीनगर-विधानसभा-क्षेत्रस्य विधायकः पूर्वमन्त्री च सिद्धार्थनाथसिंहः। सः अवदत् यत् सन्तरविदासस्य विचाराः तेन प्रदत्ताः सन्देशाश्च अद्यापि तावदेव प्रासङ्गिकाः सन्ति।

सन्तरविदासस्य ६५०तमजयन्तिवर्षस्य अवसरे आयोज्यमाना कलशवन्दनयात्रा मङ्गलवासरे पश्चिमीनगरविधान-सभाक्षेत्रस्य खुल्दाबादमण्डलं प्राप्तवती। अत्र पश्चिमीनगरविधानसभाक्षेत्रस्य विधायकः सिद्धार्थनाथसिंहः तथा यात्रायाः जनपदसंयोजकः भाजपा-जनपद-उपाध्यक्षश्च आनन्दसोनकरः स्थानीयजनैः सह यात्रायाः स्वागतं कृतवन्तौ। अस्मिन् अवसरे बहुसंख्यकाः महिलाः, बालकाः, युवानः वृद्धाश्च सम्मिल्य सन्तरविदासं नमनं कृतवन्तः।

अस्मिन् अवसरे विधायकः सिद्धार्थ-नाथसिंहः, आनन्दसोनकरः तथा पार्षदः दुर्गेशनन्दिनी च पावनकलशं शिरसि धृत्वा सन्तरविदासस्य चित्रेण रथेन च सह बस्त्यां भ्रमणं कृतवन्तः। यात्रायाः समये जनैः श्रद्धया सन्तरविदासस्य स्मरणं कृत्वा तस्य विचाराणाम् अनुसरणस्य सङ्कल्पः कृतः।

यात्रायां समाजस्य विभिन्नवर्गीयाः जनाः उत्साहेन सम्मिलिताः। जनैः सामाजिक-भेदभावात् उपरि उत्थाय परस्परभ्रातृत्वस्य समरसतायाश्च सन्देशः प्रदत्तः। आयोजनस्य अवधौ सन्तरविदासस्य जीवनस्य तस्य विचाराणां च विषये अपि चर्चा कृता।

खुल्दाबादमण्डले भ्रमणं कृत्वा कलशवन्दनयात्रा बलियाजनपदं प्रति प्रस्थिता। अस्मिन् अवसरे अपूर्वाचन्द्रा, स्वारिकाभारद्वाजः, गौरवगुप्तः इत्यादयः बहुसंख्याकाः कार्यकर्तारः स्थानीयजनाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan