काशीहिंदूविश्वविद्यालयस्य प्रो. मधूलिका अग्रवालो विशिष्टमहिलावैज्ञानिकपदाय चयनिता
वाराणसी, 18 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे स्थितस्य काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) प्राध्यापिका मधूलिका अग्रवालः राष्ट्रियविज्ञानाकादम्या भारतस्य विज्ञानप्रोत्साहनयोजनायाः अन्तर्गतं नासीविशिष्टमहिलावैज्ञानिकपीठाय चयनिता अस्ति
प्रो. मधूलिका अग्रवाल


वाराणसी, 18 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणसीजनपदे स्थितस्य काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) प्राध्यापिका मधूलिका अग्रवालः राष्ट्रियविज्ञानाकादम्या भारतस्य विज्ञानप्रोत्साहनयोजनायाः अन्तर्गतं नासीविशिष्टमहिलावैज्ञानिकपीठाय चयनिता अस्ति। अयं सम्मानः प्राध्यापिकायाः अग्रवालस्याः अनुसन्धानक्षेत्रे शिक्षाक्षेत्रे च प्रचारप्रसाराय कृतस्य विशेषयोगदानस्य कृते प्रदीयते। इति सूचना मङ्गलवासरे विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन प्रदत्ता।

प्राध्यापिका मधूलिका अग्रवाला अनुसन्धाने शैक्षणिकक्षेत्रे च स्वस्य उल्लेखनीययोगदानस्य कृते पूर्वमेव अनेकैः प्रतिष्ठितैः पुरस्कारैः सम्मानैः च फेलोशिप्भिः च पुरस्कृता अस्ति। तेषु फुलब्राइट् फेलोशिप्, प्रो. पी. शील् स्मारकपुरस्कारः, प्रो. एच्. एल्. चक्रवर्ती पुरस्कारः, स्वामी श्रद्धानन्द पर्यावरणपुरस्कारः (यूजीसी) तथा प्रो. प्रेम दुरेजा एन्डोमेन्ट् पुरस्कारः (आईसीएआर) इत्येते प्रमुखाः सन्ति।

एतेषां विशिष्टानां उपलब्धीनां दृष्ट्या नासीविशिष्टमहिलावैज्ञानिकपीठाय प्राध्यापिका मधूलिका अग्रवालायाः चयनम् तस्याः शैक्षणिकानुसन्धानात्मकयोगदानस्य महत्त्वपूर्णा उपलब्धिः अस्ति। इयं उपलब्धिः काशीहिन्दूविश्वविद्यालयस्य कृते अपि गौरवस्य विषयः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani