Enter your Email Address to subscribe to our newsletters

वाराणसी, १८ अगस्तमासः (हि.स.)। वाराणस्यां काश्याः हिन्दूविश्वविद्यालयस्य विश्वनाथमन्दिरे श्रावणस्य पावनमासे आयोजितायां नवदिवसीयायां सङ्गीतमय-श्रीरामकथायां मङ्गलवासरे पूज्यः सन्तः कालरात्रिपीठाधीश्वरः अखिलदास-महाराजः स्वस्य अमृतवाण्या सत्सङ्गस्य महत्त्वं वर्णितवान्।
पीठाधीश्वरः अखिलदासजीमहाराजः अवदत् यत् सत्येन सह नीत्वा, सत्यस्य मार्गे, सत्यलक्ष्यस्य दिशि अग्रे गच्छत् कार्यमेव सत्सङ्गः अस्ति। सत्सङ्गः संयोगेन न, अपितु सुयोगेन प्राप्यते। सत्सङ्गादेव सत्यं ज्ञानं प्राप्यते। सत्सङ्गः प्रभोः कृपया लभ्यते। सत्सङ्गस्य श्रवणमात्रेण तस्य पूर्णता न भवति, अपितु जीवने तस्य अनुसरणेन एव पूर्णता भवति।
पीठाधीश्वरः अखिलदासजीमहाराजः अग्रे अवदत् यत् प्रभौ अनुरागं विना न कश्चित् सत्सङ्गं वक्तुं शक्नोति, न च कश्चित् श्रोतुं शक्नोति। सत्सङ्गे आगमनेन सर्वाणि पापानि नश्यन्ति। ईश्वरस्य प्राप्तये एकाग्रता आवश्यकी अस्ति। शुद्धेन मनसा भगवतः पूजार्चना च करणीया।
तुलसीदासः उक्तवान्—
“नहिं कलि रिम न भगति विवेकू।राम नाम अवलंबन एकू॥नामू राम को कल्पतरु कलि कल्याण निवासू॥”
अर्थात् कलियुगे रामनाम कल्पतरुवत् मनोवाञ्छितफलप्रदं मोक्षस्य च द्वारम् अस्ति।
तुलसीदासः पुनः कथयति—
“कलिजुग सम जुग आन नहि,जौ नर कर विश्वास।गई राम गुन विमल भव,तर बिनहीं प्रयास॥कलिजुग जोग न जग्य न ग्याना,एक आधार राम गुन गाना॥”
अर्थात् विश्वासं कुर्वतः मनुष्यस्य कृते कलियुगसदृशं अन्यं सरलं युगं नास्ति। अस्मिन् युगे योगस्य, यज्ञस्य वा ज्ञानस्य अपेक्षया श्रीरामस्य पवित्रगुणानां गानमेव प्रमुखः आधारः अस्ति।
कथायाः समये सङ्गीतमयैः भजनैः श्रोतारः मन्त्रमुग्धाः अभवन् तथा सत्सङ्गेन बहुसंख्याकाः भक्तजनाः आकृष्टाः अभवन्। कथायाः आरार्तिक्यान्तरं कथायाः आयोजकेन अनिलकुमाररायेण भक्त-जनेभ्यः प्रसादस्य वितरणं कृतम्।
Hindusthan Samachar / Divya Ranjan