आयुष्मानरोगिणां चिकित्सायां शैथिल्ये योगी सरकारः शक्तः, 866चिकित्सालये कार्यवाही
मुख्यमन्त्रिणः योगिनः निर्देशेन आयुष्मानयोजनायां अनियमिततां कुर्वत्सु चिकित्सालयेषु कठोरकार्यवाही लखनऊ, १८ अगस्तमासः। योगिसर्वकारेण आयुष्मानकार्डधारकाणां रोगिणां चिकित्सायां शैथिल्यं, नियमानाम् उल्लङ्घनं वित्तीयानियमितता च कुर्वतां आयुष्मानयोजनासम
मुख्यमंत्री योगी


मुख्यमन्त्रिणः योगिनः निर्देशेन आयुष्मानयोजनायां अनियमिततां कुर्वत्सु चिकित्सालयेषु कठोरकार्यवाही

लखनऊ, १८ अगस्तमासः। योगिसर्वकारेण आयुष्मानकार्डधारकाणां रोगिणां चिकित्सायां शैथिल्यं, नियमानाम् उल्लङ्घनं वित्तीयानियमितता च कुर्वतां आयुष्मानयोजनासम्बद्धानां चिकित्सालयानां विरुद्धं निरन्तरं कार्यवाही क्रियते। मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशेन २०२० तमवर्षात् २०२६ तमवर्षपर्यन्तं कुलम् ८६६ चिकित्सालयानां विरुद्धं कार्यवाही कृता अस्ति। एतेषु सर्वाधिकाः ६४८ चिकित्सालयाः योजनायाः सूचीबद्धतायाः निष्कासिताः, ६१ चिकित्सालयाः योजनायाः निलम्बिताश्च कृताः। अपरतः १७ चिकित्सालयानां विशिष्टचिकित्सासेवाः योजनायाः सूचीबद्धतायाः निष्कासिताः। तदतिरिक्तं १४० चिकित्सालयेषु दण्डात्मककार्यवाही कृत्वा अष्टकोटिरुप्यकेभ्यः अधिकस्य दण्डस्य आरोपणं कृतम्। एतेभ्यः अद्यावधि चतुर्णां कोटीनां रुप्यकाणाम् अधिका दण्डराशिः वसूलिता अस्ति।

अस्मिन् वित्तीयवर्षे अद्यावधि ३१८ चिकित्सालयेषु कृता कार्यवाही

साचीजस्य मुख्यकार्यपालकाधिकारिणी अर्चना वर्मा अवदत् यत् मुख्यमन्त्री योगी आदित्यनाथः आयुष्मानकार्डधारकरोगिणां गुणवत्तापूर्णचिकित्सां प्रति अत्यन्तं गम्भीरः अस्ति। अतः मुख्यमन्त्रिणः योगिनः अभिप्रायानुसारं रोगिणां चिकित्सायां लापरवाहीं कुर्वतां निर्धारितमानकानि च अपूर्णानि स्थापयतां चिकित्सालयानां विरुद्धं निरन्तरं कार्यवाही क्रियते। सा अवदत् यत् २०२६ तमे वर्षे लापरवाहीहेतोः ३१८ चिकित्सालयानां विरुद्धं कार्यवाही कृता। एतेषु २४२ चिकित्सालयाः भारतसर्वकारेण निर्धारितानि ३५ सूचकानि पूर्णानि न कृतवन्तः इति कारणेन योजनायाः सूचीबद्धतायाः निष्कासिताः, ६१ चिकित्सालयाः निलम्बिताः। एतेषु १५ चिकित्सालयानां विशिष्टचिकित्सासेवायाः योजनायाः सूचीबद्धतायाः निष्कासनमपि सम्मिलितम् अस्ति। अस्मात् पूर्वं २०२५ तमे वर्षे १६ चिकित्सालयानां विरुद्धं कार्यवाही कृता आसीत्, यस्यां १४ चिकित्सालयाः योजनायाः सूचीबद्धतायाः निष्कासिताः तथा द्वयोः चिकित्सालययोः विशिष्टचिकित्सासेवायाः योजनायाः सूचीबद्धतायाः निष्कासनं कृतम्।

गतद्विवर्षयोः १४० चिकित्सालयेषु आरोपिता दण्डराशिः

साचीजस्य मुख्यकार्यपालकाधिकारिणी अवदत् यत् २०२४ तमे वर्षे २७ चिकित्सालयानां विरुद्धं कार्यवाही कृता। २०२३ तमे वर्षे २०३, २०२२ तमे वर्षे ४१, २०२१ तमे वर्षे ४४ तथा २०२० तमे वर्षे ७७ चिकित्सालयानां विरुद्धं कार्यवाही कृता। तदतिरिक्तं वित्तीयवर्षे २०२५ २६ मध्ये ६० चिकित्सालयानां विरुद्धं त्रिकोटिपञ्चचत्वारिंशल्लक्षषट्षष्टिसहस्राष्टशतैकषष्टिरुप्यकाणि दण्डरूपेण आरोपितानि। एतेभ्यः चिकित्सालयेभ्यः अद्यावधि त्रिकोटीनां एकोनत्रिंशत्लक्षाणि सप्तविंशतिसहस्राणि नवशतानि अष्टपञ्चाशद्रुप्यकाणि वसूलितानि, शेषराशेः वसूल्यर्थं कार्यवाही प्रचलति।

एवमेव वित्तीयवर्षे २०२६ २७ मध्ये अद्यावधि ८० चिकित्सालयेषु पञ्चकोटिसप्तलक्षपञ्चपञ्चाशत्सहस्रचतुःशतैकनवतिरुप्यकाणि दण्डरूपेण आरोपितानि। एतेभ्यः अद्यावधि एककोटिसप्तदशलक्षद्विसप्ततिसहस्राष्टशतत्र्यशीतिरुप्यकाणि वसूलितानि। त्रिकोटीनवाशीतिलक्षषटशताष्टाधिकरुप्यकाणां राशिरेषा अवशिष्टा अस्ति। उभयोः वित्तीयवर्षयोः सम्मिलितरूपेण १४० चिकित्सालयेषु अष्टकोटित्रिपञ्चाशत्लक्षषड्विंशतिसहस्रत्रिशत्पञ्चाशदधिकरुप्यकाणि दण्डरूपेण आरोपितानि। एतेषु चतुरकोटिसप्तत्रिंशलक्षैकसहस्राष्टचत्वारिंशदधिकरुप्यकाणां वसूली कृता अस्ति। दण्डारोपणानन्तरमपि यदि चिकित्सालयाः निर्धारितानि मानकानि न पूरयन्ति, तर्हि तेषां निलम्बनस्य कार्यवाही क्रियते।

मुख्यकार्यपालकाधिकारिणी अवदत् यत् राज्यस्य प्रतिवञ्चनाविरोधी एककेन दत्तांशविश्लेषणस्य आधारेण आयुष्मानरोगिणां चिकित्सायां लापरवाही, निर्धारितमानकानां पालनाभावः, एकस्यैव रोगिणः पुनः पुनः चिकित्सालये प्रवेशः, एकस्यैव प्रतिवेदनस्य पुनः पुनः प्रेषणं तथा बहिरोगविभागस्य रोगिणं अन्तःरोगी इव चिकित्सालये प्रवेशितं दर्शयितुं च इत्यादयः प्रकरणाः चिह्निताः क्रियन्ते। ततः एतेषां चिकित्सालयानां विरुद्धं नियमानुसारं कार्यवाही क्रियते।

Hindusthan Samachar / Dheeraj Maithani