Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् १९ तथा २० अगस्तदिनाङ्कयोः उत्तराखण्डस्य द्विदिवसीययात्रायां भविष्यति। अस्यां यात्रायां सः देहरादूननगरे स्थितायां इन्दिरागान्धीराष्ट्रीयवन-अकादम्यां भारतीयवनसेवायाः प्रशिक्षणार्हैः अधिकारिभिः सह संवादं करिष्यति तथा च मसूरी इत्यत्र स्थितायां लालबहादुर-शास्त्रीराष्ट्रियप्रशासन-अकादम्यां आई.ए.एस. व्यावसायिक-पाठ्यक्रमस्य द्वितीयचरणस्य समापन-समारोहे मुख्यातिथिरूपेण भागं ग्रहीष्यति।
उपराष्ट्रपतिसचिवालयेन मङ्गलवासरे सूचितं यत् उपराष्ट्रपतिः अगस्तमासस्य १९ दिनाङ्के आई.जी.एन.एफ.ए. इत्यस्य भ्रमणं करिष्यति तथा च भारतीय-वनसेवायाः २०२५-२७ तमे वर्षस्य प्रशिक्षणार्हान् अधिकारिणः सम्बोधयन् तैः सह संवादं करिष्यति। सः अगस्तमासस्य २० दिनाङ्के मसूरी इत्यत्र स्थितायां एल.बी.एस.एन.ए.ए. इत्यस्यां २०२४ वर्षस्य आई.ए.एस. अधिकारिणां व्यावसायिक-पाठ्यक्रमस्य द्वितीयचरणस्य समापन-समारोहे मुख्यातिथिः भविष्यति।
अकादम्याः भ्रमणावसरे उपराष्ट्रपतये सरदारवल्लभभाईपटेलाय पूर्वप्रधान-मन्त्रिणे लालबहादुरशास्त्रिणे च पुष्पाञ्जलिं समर्पयिष्यति।
Hindusthan Samachar / Divya Ranjan