Enter your Email Address to subscribe to our newsletters

- प्रतिभायाः, प्रशासनस्य भारतीय-ज्ञानपरम्परायाश्च अप्रतिमः शिल्पी आसीत् डॉ. झा — प्रो. रजनीशकुमारः
वाराणसी, १८ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां मैथिलसमाजस्य उत्तरप्रदेशस्य च सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य संयुक्त-तत्त्वावधाने मङ्गलवासरे विश्वविद्यालयस्य प्रथम-कुलपतेः पद्म-विभूषणस्य डॉ. आदित्यनाथझा इत्यस्य ११५तमा जयन्ती आयोजिता।
जयन्तीसमारोहे कुलानुशासकः प्रो. जितेन्द्रकुमारः अवदत् यत् डॉ. आदित्यनाथझा इत्यादृशस्य महापुरुषस्य स्मरणेन मनः श्रद्धया गौरवेण च परिपूर्णं भवति। तस्य जीवनं केवलम् उपलब्धीनां गाथा नासीत्, अपितु ज्ञानस्य, संस्कारस्य, कर्तव्यनिष्ठायाः भारतीयपरम्परायां समर्पणस्य च प्रेरणादायकः सन्देशः आसीत्। सः स्वेन ज्ञानेन दूरदृष्ट्या च अस्याः संस्थायाः कृते नवीनां दिशां प्रदत्तवान् तथा संस्कृतस्य आधुनिकज्ञानेन विज्ञाननेन च संयोजनस्य सार्थकं प्रयत्नं कृतवान्। एतादृशानां महापुरुषाणां स्मरणम् अस्माकं कृते अतीतस्य पुनरावृत्तिः न, अपितु तेषाम् आदर्शानाम् आत्मसात्करणेन भविष्यस्य मार्गस्य प्रशस्तीकरणम् अस्ति।
समारोहे तुलनात्मकधर्मदर्शनविभागस्य विभागाध्यक्षः दर्शनसङ्कायप्रमुखश्च प्रो. रजनीशकुमारशुक्लः अवदत् यत् प्रथमकुलपतिः प्रतिभायाः, परम्परायाः दूरदृष्टेश्च अद्वितीयः सङ्गमः आसीत्। सः महान् संस्कृतविद्वान् सर् गङ्गानाथझा इत्यस्य सुपुत्रः, प्राचार्यः, आई.सी.एस्. अधिकारी, मुख्यसचिवः, दिल्ली इत्यस्य प्रथमः उपराज्यपालः तथा भारतीय-प्रशासनिक-अकादम्याः देहरादूने प्रथमः निदेशकश्च आसीत्। मुख्यसचिवपदे स्थित्वा सः सम्पूर्णानन्दसंस्कृत-विश्वविद्यालयस्य कुलपतेः दायित्वमपि निर्वुढवान्।
अस्याः संस्थायाः प्रथमकुलपतिरूपेण तेन विश्वविद्यालयाय व्यापकदृष्टिं प्रदातुं महत्त्वपूर्णा भूमिका निर्व्यूढा। संस्कृतविदुषां आधुनिकज्ञानेन संयोजनाय तेन आङ्ग्लविषयस्य अपि महत्त्वं प्रतिपादितम् तथा भारतीयज्ञानपरम्परां सम-कालीनानाम् आवश्यकतानाम् अनुरूपम् अग्रे नेतुं प्रयत्नः कृतः। पितुः पश्चात् कुलपतेः दायित्वग्रहणं तस्य कृते केवलं पदभारग्रहणं नासीत्, अपितु पितृऋणस्य परिशोधनम् इव भावः आसीत्। तस्य बहु-आयामी लेखनं, विद्वत्ता, प्रशासनिककौशलं तथा दूरदृष्टिः विश्वविद्यालयस्य आधारं सुदृढं कृतवन्तः। १८ जनवरीमासे १९७२ तमे वर्षे तस्य निधनम् अभवत्, किन्तु तस्य व्यक्तित्वं कृतित्वं च अद्यापि विश्वविद्यालयस्य कृते गौरवस्य प्रेरणायाश्च स्रोतः अस्ति।
प्रो. हरिप्रसादाधिकारी अवदत् यत् विश्वविद्यालयस्य समृद्धपरम्परां स्वेन ज्ञानेन व्यक्तित्वेन कर्तृत्वेन च गौरवान्वितवन्तः आचार्याः स्मरणीयाः सन्ति। विशेषतः आदित्यनाथझा इत्यादृशानां विशिष्टकुलपतिनां जन्म-जयन्तीम् आयोज्य वयं तेषां योगदानं प्रेरणादायकं व्यक्तित्वं च नवीनवंशं प्रति प्रेषयितुं शक्नुमः।
प्रो. सुधाकरमिश्रः अवदत् यत् आदित्यनाथझा इत्यादृशस्य विदुषः, दूरदर्शिनः अनुकरणीयस्य च व्यक्तित्वस्य स्मरणं विश्वविद्यालयस्य गौरवशालिन्याः परम्परायाः भावीवंशस्य च कृते प्रेरणायाः स्रोतः अस्ति।
छात्रकल्याणसङ्कायाध्यक्षः प्रो. शैलेश-कुमारमिश्रः अवदत् यत् अस्याः संस्थायाः निर्माणे विकासे च डॉ. आदित्यनाथझा इत्यस्य महत्त्वपूर्णं योगदानम् आसीत्। तस्य व्यक्तित्वं कृतित्वं च अद्यापि विश्वविद्यालयस्य कृते प्रेरणास्रोतः अस्ति।
समारोहम् डॉ. कमलेशकुमारझा इत्यनेन संयोजितं, सञ्चालितं विषयप्रतिपादनं च कृतम्। धन्यवादज्ञापनं गौतमकुमारझा इत्यनेन कृतम्।
Hindusthan Samachar / Divya Ranjan