Enter your Email Address to subscribe to our newsletters


लुसाका (जाम्बिया), 18 अगस्तमासः (हि.स.)।
जाम्बियादेशस्य राष्ट्रपतिः हाकाइण्डे हिचिलेमा द्वितीयायै पञ्चवर्षीय-कार्यकालाय पुनः राष्ट्रपतिरूपेण निर्वाचितः अभवत्। जाम्बियादेशस्य निर्वाचनायोगेन मङ्गलवासरे प्रातः एषा घोषणा कृता। आयोगेन उक्तं यत् हिचिलेमा ५१ प्रतिशतादपि अधिकानि मतानि प्राप्तवान्। देशे राष्ट्रपतिपदस्य निर्वाचनाय गतगुरुवासरे मतदानं सम्पन्नम् अभवत्।
तुर्कीदेशस्य येनी-शफाक् इति वार्तापत्रेण तथा सरकारीवार्तावाहिन्या टीआरटी-वर्ल्ड इत्यनया निर्वाचनायोगस्य सन्दर्भेण प्रसारिते वृत्तान्ते उक्तं यत् चतुःषष्टिवर्षीयः हिचिलेमा २९,६५,३२६ मतानि प्राप्तवान्। तस्य निकटतमः प्रतिद्वन्द्वी विपक्षनेता तथा नेशनल-रेस्टोरेशन-पार्टी-फॉर-यूनिटी-एण्ड-प्रोग्रेस इत्यस्य ब्रायन-मुण्डुबिले १८,५६,२१७ मतानि प्राप्तवान्।
निर्वाचनायोगस्य अध्यक्षा म्वाङ्गाला-जालौमिस् अवदत्, “अतः अहं २०२६ तमस्य वर्षस्य अगस्तमासस्य अष्टादशे दिनाङ्के हाकाइण्डे-हिचिलेमां जाम्बियाराज्यस्य निर्वाचितराष्ट्रपतिरूपेण घोषितवती।”
हिचिलेमा इत्यनेन घोषणानन्तरं उक्तं यत् देशस्य जनानां विश्वासेन सः अत्यन्तम् अभिभूतः अस्ति। सः सामाजिकमाध्यमे फेसबुक इत्यत्र प्रकाशितायां सूचनायाम् अवदत्, “धन्यवादः जाम्बिया। अस्माकं देशस्य सर्वोच्चपदं धारयितुं पुनश्च भवतां सेवकरूपेण कार्यं कर्तुं यः विश्वासः भवद्भिः अस्मासु प्रदर्शितः, तेन वयं वास्तवमेव अत्यन्तम् अभिभूताः स्मः।”
अस्मिन् निर्वाचने सम्पूर्णस्य विश्वस्य दृष्टिः आसीत्। गतशुक्रवासरे मतगणना स्थगिता आसीत् तथा कतिपयेषु घण्टासु व्यतीतेषु कठोरसुरक्षाव्यवस्थायां पुनः मतगणना प्रारब्धा। आयोगेन सूचितं यत् कतिपयेषु मतदानाधिकारिषु आक्रमणानि अभवन् तथा कतिपयानि मतपत्राणि अपहृतानि। अत एव मतगणना स्थगिता आसीत्। सर्वकारेण एतदपि पुष्टं कृतं यत् निर्वाचनस्य रात्रौ विपक्षस्य कतिपयाः प्रमुखाः नेतारः निगृहीताः आसन्। पुलिसप्रशासने तेषु राज्यस्य सुरक्षायै संकटम् उत्पन्नकर्तुं आरोपः कृतः।
हिचिलेमस्य विजयस्य घोषणा भवितुं पूर्वमेव लुसाका-नगरस्य वीथिषु जनचञ्चलता प्रारब्धा आसीत्। विजयस्य घोषणानन्तरं समाजस्य सर्वेषु वर्गेषु जनाः वीथिषु समागताः तथा प्रातःकालीनस्य शीतस्य परवाहं विना हर्षोल्लासेन विजयम् उत्सवेन च आचरितवन्तः।
हिचिलेमस्य दलस्य तथा सत्तारूढस्य यूनाइटेड-पार्टी-फॉर-नेशनल-डेवलपमेण्ट इत्यस्य अध्यक्षः कॉलिन्स-माओमा निर्वाचनपरिणामस्य स्वागतं कृत्वा राष्ट्रपतिं स्वस्य नेतृत्वस्य पूर्ववत् शैलीं निरन्तरं धारयितुं आग्रहं कृतवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani