Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 18 अगस्तमासः (हि.स.)।
बिहारसर्वकारस्य ‘सर्वकारः भवतः द्वारम्’ इति पहलस्य अन्तर्गतं कटिहारजनपदस्य सर्वेषु प्रखण्डेषु षोडशपञ्चायतेषु मङ्गलवासरे ‘सहयोगशिबिरस्य’ आयोजनं कृतम्। जिलाधिकारी आशुतोषद्विवेदी बलरामपुरप्रखण्डस्य लोहागढापञ्चायत्यां आयोजितस्य शिबिरस्य निरीक्षणं कृत्वा सामान्यजनैः सह प्रत्यक्षं संवादं कृतवान् तेषां समस्याः च श्रुतवान्। अस्मिन् अवसरे बलरामपुरस्य विधायकः सङ्गीतादेवी अपि विशेषरूपेण उपस्थिताऽभवत्।
जिलाधिकारी शिबिरं सम्बोधयन् अवदत् यत् सर्वकारस्य उद्देश्यम् अस्ति यत् सामान्यनागरिकाः समस्यासमाधानाय शासकीयकार्यालयानां परिक्रमणात् मुक्ताः भवन्तु। तेन कठोरनिर्देशाः प्रदत्ताः यत् शिबिरे प्राप्तानां शिकायतानां निष्पादनं अधिकतमं त्रिंशद्दिनानां समयसीमायाः अन्तर्गतं अनिवार्यरूपेण पूर्णं क्रियताम्। निर्धारितसमये कार्यं न कुर्वतां लापरवाहाधिकारिणां विरुद्धं नियमानुसारं कठोरकार्यवाही करिष्यते।
जिलाधिकारी अवदत् यत् राज्यसर्वकारस्य ‘सप्तनिश्चय ३’ इत्यस्य अन्तर्गतं ‘सर्वेषां सम्मानः, जीवनं सुकरम्’ इति सङ्कल्पस्य पूर्तये प्रशासनं प्रत्यक्षरूपेण पञ्चायतस्तरं प्रति प्राप्नोति। एतानि शिबिराणि प्रत्येकस्मिन् मासे प्रथममङ्गलवासरे तृतीयमङ्गलवासरे च आयोज्यन्ते। नागरिकाः शिबिरस्य अतिरिक्तम् अन्तर्जालीयमाध्यमेन sahyog.bihar.gov.in इति जालपुटस्य माध्यमेन अपि स्वकीयां शिकायतां पञ्जीकर्तुं शक्नुवन्ति, यतः आवेदनानां नियमितरूपेण निरीक्षणं क्रियते।
शिबिरस्य समये पूर्वं निष्पादितप्रकरणानां लाभार्थिभ्यः जन्मप्रमाणपत्राणि, राशनपत्राणि, दिव्याङ्गताप्रमाणपत्राणि तथा रैयतकृषकेभ्यः प्रपत्र ७ पर्चासहितं विविधयोजनानां स्वीकृतिपत्राणि वितरितानि।
शिबिरे राजस्वविभागस्य, सामाजिकसुरक्षाविभागस्य, पञ्चायतीराजविभागस्य, शिक्षाविभागस्य, स्वास्थ्यविभागस्य, कृषिविभागस्य, आपूर्तिविभागस्य, ग्रामीणविकासविभागस्य, विद्युद्विभागस्य तथा लोकस्वास्थ्याभियांत्रिकीविभागस्य च स्टॉल स्थापिताः आसन्। तत्र बहूनाम् आवेदनानां निस्तारणं तत्क्षणमेव कृतम्। अस्मिन् अवसरे उपविकासायुक्तः, जनपदप्रखण्डस्तरीयाः वरिष्ठाधिकारिणः, जनप्रतिनिधयः तथा बहुसङ्ख्याकाः ग्रामवासिनः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani