Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १९ अगस्तमासः (हि.स.)। दिल्लीप्रदेशस्य उपराज्यपालः तरणजीतसिंहसन्धुः मुख्यमन्त्री रेखागुप्ता च बुधवासरे २०० नवीनविद्युद्बसयानानां, दिल्ली-करनाल-अन्तर्राज्यीय-विद्युद्बससेवायाः तथा ‘महिलाविशेष-बससेवायाः’ च हरितध्वजं प्रदर्शितवन्तौ। तदनन्तरं दिल्लीविश्वविद्यालयस्य क्रीडासङ्कुल-परिसरे आयोजिते कार्यक्रमे दिल्लीपरिवहननिगमस्य राजघाट-डिपो- इत्यत्र विद्युद्वाहनानां भारणकेन्द्रस्य उद्घाटनमपि कृतम्। एतत् विद्युद्वाहन-भारणकेन्द्रं प्रायः ५.५० कोटिरूप्यकाणां व्ययेन निर्मितम् अस्ति। अस्मिन् अवसरे दिल्लीप्रदेशस्य परिवहनमन्त्री डॉ. पङ्कजकुमारसिंहः, स्थानीयविधायकः सूर्यप्रकाशखत्री च उपस्थितौ आस्ताम्।
उपराज्यपालः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः ‘शक्तेः सप्तधारा’ इति विचारणया प्रेरिताः एते प्रयत्ना: स्थायिसञ्चालनव्यवस्थां सुदृढां कुर्वन्ति तथा च महिलानां सशक्तीकरणं सुरक्षां च प्रोत्साहयन्ति। सः अवदत् यत् पूर्णतया महिलाकर्मचारिभिः सञ्चाल्यमानासु एतासु ‘महिलाविशेषबससेवासु’ आपत्कालीनसूचनासूचकानि यन्त्राणि अपि भविष्यन्ति, यानि साक्षात् दिल्ली-आरक्षकविभागस्य ११२-पीसीआर-सेवया सम्बद्धानि भविष्यन्ति। तेन आपत्कालीनस्थितौ शीघ्रं साहाय्यं प्राप्तुं शक्यते।
उपराज्यपालः अवदत् यत् ‘सुखेन जीवनम्’, स्थायिसञ्चालनव्यवस्था तथा ‘विकसितभारत-२०४७’ इत्यस्य लक्ष्यस्य दिशि स्वच्छस्य, हरितस्य सुरक्षितस्य च विकसितदिल्लीप्रदेशस्य निर्माणाय एतत् महत्त्वपूर्णं सोपानम् अस्ति।
उल्लेखनीयं यत् २०० नवीनविद्युद्बसयानानां डीटीसी-परिवहने सम्मिलितेन बसयानानां कुलसंख्या प्रायः ६८०० अभवत्, यस्मिन् ४९३८ विद्युद्बसयानानि १७५० सीएनजी-बसयानानि च सन्ति। तदनन्तरं डीटीसी-संस्थया दिल्ली-करनालमार्गे पञ्च पूर्णतया विद्युदाधारितानि वातानुकूलितानि बसयानानि प्रारब्धानि। एषा बससेवा प्रायः १३३ किलोमीटर-दीर्घे एकदिशीयमार्गे उभयोः दिशयोः प्रतिदिनं १० यात्राः करिष्यति। एषः मार्गः महाराणाप्रताप-आईएसबीटी-कश्मीरीगेटं हरियाणा-राज्यस्य करनालनगरेण सह प्रत्यक्षतया संयोजयति। अस्मिन् मार्गे सिंघुसमीमा, राय, भालगढः, मुरथलम्, गन्नौरः, समालखा, पानीपतं, घरौण्डा, मधुबनम् इत्यादयः महत्त्वपूर्णाः स्थानानि सन्ति। एतानि बसयानानि दिल्लीं बरौत्, सोनीपत्, धारूहेडा, पानीपतं रोहतकं च इत्येतेभ्यः स्थानेभ्यः संयोजयन्ति। अनेन शून्य-उत्सर्जनयुक्तस्य सार्वजनिक-परिवहनस्य जालं राजधानीदिल्ली इत्यस्य सीमाभ्यः बहिरपि विस्तारितं भवति।
महिलानां सुरक्षा, सुविधा, प्राप्तिश्च अधिकं सुदृढीकर्तुं डीटीसी-संस्थया महिलाभ्यः विशेषरूपेण ५६ विद्युद्बससेवाः प्रारब्धाः सन्ति। तासु अधिकयाचनासु १५ मार्गेषु ‘महिलाविशेषसेवायाः’ ३० यात्राः तथा १३ मार्गेषु ‘विश्वविद्यालय-महिलाविशेष-सेवायाः' २६ यात्राः अन्तर्भवन्ति।
विश्वविद्यालय-महिलाविशेषबससेवया हिन्दूमहाविद्यालयः, रामजसमहाविद्यालयः, दौलतराममहाविद्यालयः, श्रीराम-महाविद्यालयः, एलएसआर, गार्गीमहा-विद्यालयः, एआरएसडी, हंसराजमहा-विद्यालयः, एसपीएममहाविद्यालयः, देशबन्धु-महाविद्यालयः, एजीजीएससीसी इत्यादिभ्यः प्रमुखसंस्थानेभ्यः विशेष-सम्पर्कसुविधा प्रदास्यते।
विद्युद्गतिशीलतापारिस्थितिकीतन्त्रं अधिकं सुदृढीकर्तुं डीटीसी-संस्थया राजघाट-डिपो-I इत्यत्र सार्वजनिकं विद्युद्वाहन-भारणकेन्द्रमपि निर्मितम् अस्ति। प्रायः ५.५० कोटिरूप्यकाणां व्ययेन निर्मितम् एतत् विद्युद्वाहन-भारणकेन्द्रं नगरस्य विद्युद्वाहन-अवसंरचनां अधिकं सुदृढं करिष्यति।
Hindusthan Samachar / Divya Ranjan